________________ सूत्र 32] स्वोपशभाष्य टीकालङ्कृतम् 189 अथ कथेमस्य ते पुद्गलास्तद्योग्या ग्रहणमागच्छन्ति, केन हेतुना लगन्त इतियावत्, अत आह-'सकषायत्वाज्जीवः कर्मणो योग्यान पुद्गलानादत्ते' ( अ०८, मू०२), सकपायत्वाल्लगन्ति ते पुद्गलाः, स्नेहाभ्यक्तशरीरे रेणुलगनवत् , एतदष्टमेऽभिधास्यते विस्तरेण, तथा पञ्चमेऽपि द्रव्योपकारप्रस्तावेऽध्येष्यते-कायवाङ्मनःप्राणापानाः पुद्गलानामुपकारः (अ० 5, मू०१५) इति / शरीराणि पञ्चविधान्यौदारिकादीनि पुद्गलानामुपकार इत्यतोऽपि ते पुद्गलास्तथाश्लेषात् तथा परिणमन्ते तस्यामवस्थायामिति, प्रपञ्चत एतत् प्रतिपादयिष्यते तत्रैव / तथाऽष्टमे-'नामप्रत्ययाः सर्वतो योगविशेषात्' (अ० 8, सू० 25) सूक्ष्मा एकक्षेत्रावगाढाः स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशा इति प्रदेशबन्धविचारे वक्ष्यते / बन्धननामकर्मोदयहेतुतः कर्मपुद्गलग्रहणमिति आद्योपपत्तिबन्धसामान्ये, मध्यमा उपकारभेदविवक्षाद्वारेण, अन्त्या प्रदेशबन्धप्रस्तावाकृष्टेत्यतस्तिसृणामपि सूचनम्, न पुनरभिन्नैकवस्तुसन्निपातिन्यस्तिस्रोऽपि, पुनरुक्तदोषप्रसक्तः, इदं च स्वस्थान एवोपपत्तित्रयमपि विविक्तमुन्मीलिष्यतीति नोत्त्रसितव्यम् , अतो यत् तदेवंविधं पुद्गलग्रहणं तज्जन्म, तच्च विविधम् , आश्रयग्रहणभेदात् तत्त्रैविध्यं दर्शयितुकामस्तद्यथेत्यनेनोपक्रमते // 31 // सूत्रम्-सम्मूच्र्छनगर्भोपपाता जन्म // 2-32 // भा०-सम्मूच्र्छनं 1 गर्भ 2 उपपात 3 इत्येतत् त्रिविधं जन्मभेदाः जन्म // 32 // व्याख्या टी०-सम्मूछनगर्भोपपाता जन्म। सम्मूछेनं गर्भ उपपात इत्येतत् त्रि ... विधं जन्मेत्येतावद्भाष्यमस्य सूत्रस्य / अत्र सम्म मात्र सम्मूर्छनम्, सम्मूर्छनजन्मनो - यस्मिन् स्थाने स उत्पत्स्यते जन्तुस्तत्रत्यपुद्गलानुपसृज्य शरीरीकुर्वन् सम्मूर्छनं जन्म लभते, तदेव हि तादृक सम्मूछेनं जन्मोच्यते / जन्म च शरीरद्वयसम्बन्धित्वेनात्मनो यः परिणामः, अतस्तत् सम्गूछेनजन्मोत्पत्तिस्थानवतिपुद्गलजालमनुपमृद्य न प्रादुरस्ति, किण्वाद्युपमर्दनात सुराजन्मवत् , पिष्टकिण्वोदकादीनामुपमर्दनात् सुराया जन्म दृष्टम्, तथा बाह्यपुद्गलानामाध्यात्मिकानां चोपमर्दनाद् यजन्म भवति तत् सम्मूर्च्छनजन्म व्यपदिश्यते, बाह्यपुद्गलोपमर्दनलक्षणं तावद् यथा कृम्यादीनां काष्ठादिषु, काष्ठत्वपकफलादिषु जीवाः कृम्यादयः समुपजायमानाः तानेव काष्ठफलत्वग्वर्तिनः पुद्गलान् शरीरीकुर्वन्त उपजायन्ते, तथा जीवद्वादिशरीरेषु कम्यादयः प्रादुःष्यन्तस्तानेव जीवद्गवादिशरीरावयवानादाय स्वशरीरतया परिणति 'कथमस्मात् पुद्गलात् तद्योग्या' इति क-पाठः / २'मनुपसृज्य न प्रादु' इति ख-पाठः।