________________ 188 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः सन्निपातापादितसामर्थ्य वर्षति पर्जन्ये नाराचद्रव्यं ज्याहस्तविप्रयोगाहितवेगमनिज्वालाकलापादीप्तमम्भःपुद्गलग्रहणं कुर्वदेव गच्छति, एवमयमन्तरात्मा कार्मणेन शरीरेण कर्मोष्णत्वात् पुद्गलग्रहणं कुर्वन्नविच्छिन्नमागामिजन्मनेभिधावतीति, न खल्वेवरूपस्य पुद्गलादानस्य प्रतिषेधः, किन्तु परिपोपहेतुको य आहार औदारिकवैक्रियशरीरद्वयस्य स विवक्षितः प्रतिषे. ध्यत्वेनेति, अतोऽन्तर्गतावेकं समयं समयद्वयं वाऽनाहारकः, शेषं कालमनुसमयमाहारयति एकद्विसमयव्यतिरिक्तः शेषकालमाहारमभ्यवहरति / अत्यन्तसंयोगप्रदर्शनार्थमनुसमयमित्युक्तम् / अनुसमयमविच्छेदेन, प्रतिसमयमित्यर्थः / उत्पत्तौ प्रथमसमयादारभ्यान्तमुहूर्तिक ओजआहारः, पश्चादाभवक्षयाल्लोमाहारः, कावलिकस्तु कादाचित्कः / कथमेक हो वेत्यादि, केन प्रकारेणैकं द्वौ वा समयावनाहारको जन्तुर्न पुनरतोऽपि यहून् समयानित्यत्र प्रश्ने विकल्पानां विभावना कायों, सा च कृतैव द्विविग्रहायामेकं त्रिविग्रहायां द्वाविति। भा०-अत्राह-एवमिदानी भवक्षये जीवः अविग्रहया विग्रहवत्या वा गत्या गतः कथं पुनर्जायत इत्यत्रोच्यते-उपपातक्षेत्रं स्वकर्मवशात जन्मसूत्रे प्राप्तः शरीरार्थ पुद्गलग्रहणं करोति / सकषायत्वाज्जीवः कर्मणो प्रस्तावना योग्यान् पुद्गलानादत्ते (अ०८, सू० 2) इति / तथा कायवामनःप्राणापानाः पुद्गलानामुपकारः ( अ० 5, सू० 19) / नामप्रत्ययाः सर्वतो योगविशेषात् (अ०८, सू० 25) इति वक्ष्यामः / तज्जन्म, तच्च त्रिविधम्, तद्यथा टी–अत्राहेत्यादिः सम्बन्धग्रन्थः / अत्रावसरे शिष्यः पृच्छत्यजानानः-एवमुक्तेन प्रकारेण इदानीमिति, सर्वसंसारिणां स्वजीवितव्यवच्छेदविशिष्टं कालमाशति भवक्षये इति, प्रागुपाचौदारिकवैक्रियशरीरपरिक्षये सति, ऋज्वा वक्रया वा गत्या गत उपपत्तिदेशं प्राप्तो जीवः, केन प्रकारेण पुनर्जायत इति / पुनःशब्दः प्राक्तनजन्मापेक्षः, जायते-प्रादुर्भवति, औदारिकवैक्रियशरीरितयोत्पद्यत इतियावत् / अत्र उच्यते-उपपातक्षेत्रं स्वकर्मवंशात प्राप्तः शरीराद्यर्थ पुद्गलग्रहण करोति, यस्मिन् क्षेत्रे उत्पत्स्यते तदुपपातक्षेत्रमा काशस्थानमाश्रय इति पर्यायाः, तत्प्राप्तः स्वकर्मवशादिति, पूर्वोपात्तकर्मपरिणतिसामर्थ्या देव विहाय प्राणान् भवान्तरमासादयति नेश्वरादिप्रेरित इति सूचयति / सर्व हि तस्य कर्मा ण्येव तदा निष्पादयन्ति, उत्पत्तिस्थानमृजु गन्तव्यमनेन वा मार्गेण यातव्यमस्यांवा वेलाय प्रवर्तितव्यमस्मिन् वा योन्यन्तरे मयोत्पत्तव्यं नान्यत्रेत्येतदशेषमचिन्त्यसामर्थ्य भाञ्जि कम ण्यात्मपरिणामापेक्षाणि प्रसाधयन्ति, न पुनरन्तरालपर्तितायामुदीक्ष्यमाणस्तिष्ठति वेलाम् नापि सभा सन्ततिपतितान् सत्त्वान् क्रीडतो रिरंसयाऽनुप्रविशति, असमञ्जसत्वात् , अतः कर्मानुभावादनुप्राप्त औदारिकवैक्रियशरीरनिष्पत्तये पुद्गलानां तत्प्रायोग्यानामादानं करोति 'शरीरक' इति क-ख-पाठः।