SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ घनश 230 तत्वार्थाधिगमभूत्रम् [ अध्यायः 3 भा०–रत्नप्रभाया अधः शर्कराप्रभा, शर्कराप्रमाया अधो वालुकाप्रमा इत्येवं शेषाः / अम्बुवाताकाशप्रतिठा इति सिद्धे घनग्रहणं क्रियते तेनीयमर्थः प्रतीयेत घनमेवाम्बु अधः पृथिव्याः, बातास्नु घनास्तनवश्चेति / / टी-रत्नप्रभाया अधोऽसङ्ख्येया योजनकोटीना कोटीरवगाह्य शर्कराप्रमा भवति, शर्कराप्रभायास्त्वधोऽसङ्ख्येया एव योजनकोटीना कोटीरतिक्रम्य वालुकाप्रभा भवति, एवं शेषाः पप्रभाद्या असाव्येययोजनकोटीकोट्यवकाशान्तरा वक्तव्या ___अधोऽध इति / / अथ घनग्रहणं किमर्थं क्रियते अम्बुवाताकाशप्रतिष्ठा " इत्येतावतैवाभिलपितार्थप्रसिद्धेरिति ? मूरिराह-सत्यमेवं सिद्धयति, सि. द्धे सति यत् तथापि घनग्रहणं क्रियते तेनायमर्था ज्ञाप्यते घनमेवाम्बु अधः पृथिव्याः प्रत्येकं यथा स्यात्, मा भूद् द्रवमिति / वातास्तूभयथा घनास्तनवश्चति / यथैव पृथिवीनामधोधो व्यवस्थानमशेषाणामेवमेकस्यां पृथिव्यां स्वभदानामधोऽधो व्यवस्थानं दर्शयितुमाह - भा०--तदेवं खरपृथिवी पङ्कप्रतिष्ठा, पङ्को घनोदधिवलखरपंकादिप्रतिष्ठा " यप्रतिष्ठः, घनोदधिवलयं घनवातवलयप्रतिष्ठम्, घनवातवलय त्वम् तनुवातवलयप्रतिष्ठम्, ततो महातमोभूतमाकाशम् / सर्व चैतत् पृथिव्यादि तनुवातवलयान्तमाकाशप्रतिष्ठम्, आकाशं चात्मप्रतिष्ठम् / उक्तमवगाहनमाकाशस्यति॥ टी–तदेवं खरपृथिवी पङ्कप्रतिष्ठा / आदावत्र रत्नप्रभायाः खरपृथिवीकाण्डं रत्नबहुलं योजनसहस्रषोडशकवाहल्यम्, तत् पश्पृथिवी लाण्डे पकाहुले चतुरशीतियोजनसहस्रनहुले प्रतिष्ठितम्, तदपि पङ्कपृथिवीकाण्डमपृथिवीकाण्डे जलबहुलेऽशीतियोजनसहस्रघने प्रतिष्ठितम् / अत्र चाचार्येणाबहुलं काण्ड नोपात्तं पृथग, घनोदधिवलयग्रहणेनैवं लब्धत्वाद, घनोदधिय घनोदधिवलयं चेत्येकदेशनिर्देशात्, तत् पुनर्जलबहुलं काण्ड विंशतियोजनसहस्रबहुले घनाम्धुवलये प्रतिष्ठितम्, घनोदधिवलयमप्यमङ्ख्यययोजनसहस्रघने धनवानवलये प्रतिष्ठितम्, घनवातवलयमपि ह्यसङ्ख्येययोजनसहस्रबाहल्ये तनुवातवलये प्रतिष्ठितम्, ततस्तनुवातवलयात् परं महातमोभूतमाकाशमसङ्ख्येययोजनकोटीकोटीप्रमाणम्, तदन्तरालपति वियत् तनुवातवलयद्वितीयपृथिव्योः मुचिभेधेन सन्तमसेन समन्ततो विजृम्भमाणेनातिघनतां गतेन व्याप्तम्, अतो महातम इव तत् प्रतिभातीति महातमोभूतमुच्यते, तच्चास्याः खरकाण्डादिभेदायास्तनुवातवलयपर्यन्ताया रत्नप्रभापृथिव्याः प्रपन्नमाधारतामधिगन्तव्यमित्यादर्शयति-सर्व चैतत् पृथिव्यादीत्यादिना / न चैतत् अश्रद्धेयं प्रत्यक्षप्रमाणसमधिगम्यानि 1 'येन प्रतीयते' इति घ-पाठः। 2 'पृथिव्यां' इति ग-घ-टो पाठः। 3 'योजनकोटीरतिफम्य' इति ग-टी. पाठः। 4 'त्वात्म.' इति घ-पाठः /
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy