________________ सूत्रं 1 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 229 सच्चविशेषा इत्यर्थः / तत्र नरकप्रसिद्धयर्थमिदमुच्यते, तत्र-तेषु नरकेषु विवक्षितेषु तन्मूलत्वात् तत्प्रतिष्ठत्वान्नारकप्रतिपत्यर्थमेव तावदिदमभिधीयते नान्तरीयकत्वादिति // सूत्रम्-रत्नशर्करावालुकापङ्कधूमतमोमहातम प्रभा भूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः पृथुतराः // 3-1 // री०- सूत्रकृतोऽप्येष एव सम्बन्धोऽतः पृथग नोक्तः, अथवा वक्ष्यते नवमे-आज्ञापायविपाकसंस्थानविचयाय धयेमप्रमत्तसंयतस्य (अ० 9, सू० 37) इति, तत्र संस्थानविचय: "लोकस्यास्तिर्यग् , विचिन्तयेद्धमपि च बाहल्यम् / सर्वत्र जन्ममरणे, रूपिद्रव्योपयोगांश्च ॥"-प्रशम० श्लो० 160 इति, तत्र प्राक् तावदधोलोकस्वरूपपेव पृथिवीभेदेनोच्यते / रत्नशर्करेत्यादि सूत्रम् / ततस्तियग्लोकस्वरूप जम्बूद्वीपलवणादिप्रक्रमेण, पश्चाच्चतुर्थे ऊर्चलोकस्वरूपमिति, एवमयं त्रिविभागः पश्चास्तिकायसमुदयवृत्तिर्जीवाजीवाधारक्षेत्रलक्षणो वैशाखस्थानस्थितकटिस्थकरयुमपुरुषाकृतिर्लोकः, तस्याधस्तनभागस्वरूपावगमनायेदमुच्यते / अथवा सम्यग्दर्शनमाग्भिर्जीपैलॊकस्यासङ्ग्येयभागः स्पृष्ट इत्युक्तं प्रथमाध्याये (मू०८) सम्याष्टिनातु सर्वलोकः, तद्न्यतां निर्देशतः को लोक इत्यतोऽधोविभागादिः स आख्यायते // रत्नशरेत्यादि सूत्रम्, रत्नानि-वन्नादीनि तत्प्रधाना रत्नप्रभा, शर्करादयोऽपि प्रतीतास्तत्प्रधानाः सर्वा वक्तव्याः, प्रभाशब्दो रूपस्वभावयाची, रत्नप्रभा रत्नस्वभावा रत्नमयी रत्नबहुलेति, एवं शर्कराप्रभादयोऽपि वाच्याः, एप च प्रभासदः पत्येकमभिसम्बध्यत इति दर्शयति भा०-रत्नप्रभा शर्करामभा वालुकाप्रभा पङ्कप्रभा धूमप्रनरक पृथ्वीना - भा तमःप्रभा महातमाप्रभा इत्येता यो घनाम्बुवाताका शप्रतिष्ठा भवन्त्येकैकशः समाधाऽधः // टी-रत्नप्रभेत्यादिना भाष्येण / इत्येता भूमयो घनाम्बुवाताकाशप्रतिष्ठा भवन्त्येकैकशः सप्ताधोऽधः, एवमेता रत्नप्रभाद्याः पृथिव्यो घनाम्बुनि वायौ वियति च प्रतिष्ठिताः; नेश्वराद्याधारा इत्याचष्टे / घनाम्बु च वाताश्चाकाशं च धनाम्बुवाताकाशानि तेषु प्रतिष्ठा-स्थितिर्वर्तनं यासां ता बनाम्बुवाताकाशप्रतिष्ठा भवन्ति, एकैका एकैकशः घनाम्बुवाताकाशक्रमेण प्रतिष्ठिताः, न पुनः सप्तानामप्यध एव घनाम्बुवाताकाशानि प्रत्येकमन्तरालेषु न सम्भवन्तीति, सङ्ख्ययाऽवधार्यन्ते सप्तैवान्यूनाधिका इति / अंधोऽध इति प्रतिविशिष्टक्रमाख्यानं तिर्यगूर्वदिशो व्युदासः, एतदेव स्पष्टयति, 'सम्बन्धो न पृथगुक्तः' इति क-न-पाठः / 1 'महातमःप्रभा भूमयो' इति ग-टो-पाठः / 3 अधः' इति माधारा: क-ख-पाठः।