SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ सूत्र 1] स्वोपज्ञभाष्य-टीकालङ्कृतम् 231 चन्द्रादित्यादि विमानानि निरालम्बे विहायसि परिप्लवन्ते, न चाधः पतन्ति लोकानुभावादेवमेवैताः पृथिव्योऽपीति, आकाशं पुनरात्मन्येव प्रतिष्ठितम्, नाधारान्तरसमासादितप्रतिष्ठमिति, यस्मादृक्तम्-अवगाहनमाकाशस्यति, पञ्चमेऽध्याये सूत्रतः उक्तम्-'आकाशस्यावगाहः' (अ० 5, मृ० 18 ) उपकारः, अवगाहदानेन व्याप्रियत आकाशं सर्वद्रव्याणामवगाहवतां निरवगाहदानव्यापारपरं सदवगाहिन्यते तदन्यत्र तदनुरूपाधाराभावादतः स्वप्रतिष्ठं प्रतिपत्तव्यम् // भा०-तदनन क्रमेण लोकानुभावसन्निविष्टा असङ्ख्येययोजनकोटीकोव्यो वि. स्तृताः सप्त भूमयो रत्नप्रभाद्याः / सप्तग्रहणं नियमार्थम् / रत्नप्रभाद्यामा भूवन्नेकशः अंनियतसङ्ख्या इति। किश्चान्यत्। अधः सप्तयेत्यवधार्यते, ऊच त्वकैवेति वक्ष्यते।। टी०-तदनेन क्रमणेत्यादि भाष्यम्, तस्मादनेन क्रमेण घनाम्बुधनवाततनुवातवल . याकाशप्रतिष्ठानाः सप्तापि भूमयो लोकानुभावादेव सन्निविष्टाः, प्रतिष्ठाने लोकस्थितिहेतुः . लाल - लोकानुभावो हि लोकस्थितिग्नाद्या न केनचिदीश्वरादिना कृता व्योमव * दकृत्रिमा, असङ्ख्यययोजनकोटीकोट्यो विस्तृता इति तियाप्रमा. णमाचष्टे, नाधःप्राच्यात् रत्नप्रभापृथिवीपर्यन्तात् प्रतीच्यं तत्पर्यन्त एतावदन्तरालमतीत्य भवतीत्येवं शेषाणामपि बहुतरा बहुतमाश्च कोटयो भवन्ति, वृत्तत्वाच्च सर्वासांतुल्यं विष्कम्भायामताऽध्यवसेया। प्रवचनं चेदम् --" कतिविहाणं भंते ! लोकहिती पण्णत्ता ? गोयमा! अविहा लोगटिई पण्णत्ता, तंजहा-आगासपतिटिए वाए 1 वातपतिठिए उदही 2 उदधिपइटिया पुढवी 3 पुढवीपतिहिता तसथावरा पाणा 4 अजीवा जीवपतिहिया 5 जीवा कम्मपइटिया 6 अजीवा जीवसंगहिता 7 जीवा कम्मसंगहिता 8 ॥से केणटेणं भंते ! एवं वुचति अविहा लोगहिती ? गोयमा! से जहा नामए केति पुरिसे वत्थिमाडोवेति, वत्थिमाडोवेत्ता उप्पिसि ते बंधति, बंधित्ता मज्झे गंठिं देति, मझेगठिं दलइत्ता उवरिलं गंटिं मुइत्ता उवरिल्लं देसं वामेति, वामेत्ता आउकायस्स पूरेति, पूरित्ता उपिसि तं बंधति, बंधित्ता मज्झिल्लं गठि मुयति, तेणं गोयमा ! से आउकाए तस्स वाउकायस्स उवरितले चिति, से तेणं अटेणं गोयमा! एवं बुचति-अद्दविहा लोकहिती पण्णत्ता। से जहा वा केइ पुरिसे वत्थिमाडोवेति, आडोवेत्ता कडीए धनियत' इति घ-पाठः / २'तुल्यविष्कम्भायामेत्यध्यवसेया' इति ख-पाठः / 3 कतिविधा भदन्त / लोकस्थितिः प्रज्ञप्ता ? गौतम! अष्टविधा लोकस्थितिः प्राप्ता, तद्यथा-आकाशप्रतिष्ठितो पातः, वातप्रतिठित उदधिः, उदधिप्रतिष्ठिता पृथ्वी, पृथ्वीप्रतिष्ठिता त्रसस्थावराः प्राणाः, अजीवा जीवप्रतिष्ठिताः, जीवाः कर्मप्रतिष्ठिताः, अजीवा जीवसंगृहीताः, जीवाः कर्मसंगृहीताः / अथ केनार्थेन भदन्त। एवमुच्यते-अष्टविधा लोकस्थितिः? गौतम! तत् यथानामकः कश्चित् पुरुषः बस्तिमापूरयति, बस्तिमापूर्य उपरिष्टात् तां बनाति बद्ध्वा मध्ये प्रन्थि ददाति, मध्ये प्रन्थि दवा उपरितनं मन्थि मुक्त्वा उपरितनं देशं वमयति (रिक्तीकरोति) वमयित्वा अप्कायं पूरयति, पूरयित्वा उपरिष्टात् ता बनाति, बध्या मध्यमं प्रन्धि मुश्चति, तेन गौतम | सः अपकाया तस्य वायुकायस्म उपरितले तिष्ठति, तदेतेनार्थेन गौतम! एवमुच्यते-अधविधा लोकस्थितिः प्राप्ता / अप यथा वा कथित पुरुषः
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy