________________ सूत्र 44 ].. स्वोपज्ञभाष्यटीकालङ्कृतम् 441 . टी०-मतिश्रुतावधिमनःपर्यायकेवलमतिश्रुतावध्यज्ञानत्रयभेदः पूर्वः (प्राच्यः ), पाश्चात्यश्चक्षुरचक्षुरवधिकेवलभेदः। एतौ योगोपयोगी परिणामावित्यनेनात्मनः सद्भावापत्तिं दर्शयति / आत्मा कायादिपुद्गलशतसम्बन्धात् तां तां गमनादिकथनचिन्तनक्रियां प्रतिपद्यते तद्रूपीभवति, क्षीरोदकवत् मृद्धटवच्च तादात्म्यं प्रतिपद्यत इतियावत् / स चोपजायमानकालावधिकत्वादादिमान्, सन्तत्या त्वनादिः, उपयोगोऽपीन्द्रियनिमित्तस्तनिरपेक्षश्चात्मनो झस्वभावत्वाच्चैतन्यरूपत्वात् परिणामः सामान्य विशेषरूपः, सन्तत्याऽनादिः, प्रत्येकविवक्षायामादिमान्, अनयापि चोपयोगलक्षणमात्मनः सार्वकालिकत्वात् , योगोपयो. गग्रहणाच्चान्येषामात्मन्यनादित्वं प्रायः परिणामानाम् / अथ मत्याधुपयोगद्वादशकस्य किं स्वरूपमित्यारेकिते इदमाह मा०-तत्रोपयोगः पूर्वोक्तः॥ ___टी-तत्र-तयोयोगोपयोगयोः उपयोगः पूर्वमेव द्वितीयेऽध्याये व्याख्यातः-स्वरूपेणोक्तः / " उपयोगो जीवलक्षणम्", "स द्विविधोऽष्टचतुर्भेदः" (अ० 2, सू० 8, 9) इत्यत्र / अथ योगः- किंस्वरूप इत्याशङ्कयाह भा०-योगस्तु परस्ताद् वक्ष्यते // .टी.-परस्तादिति उपरिष्टात् षष्ठाध्यायादिसूत्रे "कायवाचनाकर्म योग" इत्यत्रा मिधास्यते यतः तस्मादत्र न व्याख्यायते / तुशब्दो हेत्वर्थः। तदेव च स्थानं योगस्वरूपव्यावऐनस्य, उभयत्र व्याख्या गौरवमापादयति, तस्मात् तत्रैव व्याख्यास्याम इति, एवं सर्वद्रव्याणि परिणामवन्ति स्वरूपेण व्याख्यातानीति // 44 // ... इति श्रीतत्वार्थाधिगमे अर्हत्प्रवचने भाष्यानुसारिण्या तत्त्वार्थटीकायां पश्चमोऽध्यायः // 5 // MMMMMMMMMMMMMMMS // प्रथमो विभागः समाप्तः //