________________ 142 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 णाद विभक्त्यश्रवणाच घ्यादिषु निश्चीयते, पुनः सूत्रपाठे तर्हि किं प्रयोजनम् ? एतावल्लक्ष्यतेपूर्व सूत्रार्थमनूद्य यथाक्रमं सूत्रं सम्बन्धयति-औपशमिको विभेद इत्यादि। विवरण सुगमम् / पारिणामिकस्त्रिभेद इति, अयमितिशब्द आदिशब्दार्थे, शेषपारिणामिकभेदसङ्: ग्रहार्थम् , यथाक्रममिति, अत्रेतिशब्दः शब्दपदार्थकः; अनेन शब्देनायमर्थः प्रत्याय्यते, येन सूत्रक्रमेणात ऊर्ध्व वक्ष्यामः, येनेति वक्ष्यमाणेन सम्यक्त्वचारित्रे इत्यादिना अस्मात् सूत्रादुपरिष्टात् भणिष्यामः तेन क्रमेण यथाक्रममौपशमिकादयो द्रष्टव्याः / वाक्यान्तरेण प्रकृतार्थनिगमनमादर्शितम् , वाक्यान्तरनिरूपणं च व्याख्यायाः प्रधानाङ्गमिति सङ्ख्यानमात्रश्रवणादुद्देशस्त्रमिदं, न तु भेदनिर्देशः // 2 // सम्प्रति संख्येयान् भावविशेषान् निर्दिशति; औपशमिकस्य तावत् त्रक्रमप्रामाण्यात् भेदद्वयं प्रतिपिपादयिषुराह सूत्रम्-सम्यक्त्वचारित्रे // 2-3 // ___भा०–सम्यक्त्वं चारित्रं:च द्वावापशमिको भावौ भवत मेकस्य इति // 3 // टी-सम्यक्त्वचारित्रे सम्यक्त्वमुक्तं प्रथमेऽध्याये लक्षणविधानाभ्याम् , चारित्रं नवमे वक्ष्यते / एतदुभयमपि सिद्धं गृहीत्वा इहौपशमिकभावो नियम्यते, सम्यक्त्वचारित्रे त्वनियते क्षायिकक्षायोपशमिकयोरपि भवतः, औपशमिकभावस्तु द्वयमिदमपहाय न भेदान्तरमवरुणद्धि, अयं च नियमो द्विनवाष्टादिसूत्रारम्भ सामर्थ्याल्लभ्यते, औपशमिको द्विभेद एवेति गम्यते, सङ्ख्याशब्दोपादानेऽप्येवकारेण तद्यथेत्यादिभाष्ये अनन्तरसूत्रनिर्दिष्टं द्विभेदत्वमौपशमिकस्य तदधुना यथा भवति तथा प्रकाश्यते-सम्यक्त्वचारित्रे चेति, तत्त्वरुचिः सम्यक्त्वम्, सदसत्क्रियाप्रवृत्तिनिवृत्तिलक्षणं चारित्रम्, चशब्दः समुच्चये, एतदुभयमपि इष्टनियमप्रदर्शनार्थम् , द्वाविति सङ्ख्योपादानम् , स च प्रकटीकृत एव प्राक् / औपशमिकावित्यनेन नियम्य पदार्थ दर्शयति-भावाविति / सम्यक्त्वचारित्रयोरात्मपर्यायत्वं दर्शयति-भवत इति / श्रद्धानचरणक्रिययोः क्रियावतः सकाशादनन्यत्वमाह, अतः समुदायार्थोऽयम्-सम्यक्त्वचारित्रे द्वे एव ओपश मिको भावो भवति, नान्यथेति // 3 // अथ क्षायिको नवभेद उद्दिष्टः सोऽधुना निर्दिश्यतेसूत्रम्-ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च // 2-4 // क्षायिकस्य नव भा०-ज्ञानं,दर्शनं, दान, लाभः, भोगः, उपभोगः, वीर्यमिभेदाः त्येतानि सम्यक्त्वचारित्रे च नव क्षायिका भावा भवन्तीति // 4 //