________________ सूत्रं 4 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् . टी-ज्ञानदर्शनेत्यादि सूत्रम् / कृतद्वन्द्वानां निर्देशः, चशब्दोऽनन्तरद्वयानुकर्षणार्थः सूत्रोक्ताः सप्त च द्वौ चशब्दानुक्रष्टावित्येवं नव भेदाः // ननु च सिद्धत्वमपि क्षायिको भावः, स चेह न निर्दिष्टः मरिणा, कोऽभिप्राय इति ? / उच्यते-कर्माष्टकैकदेशक्षयादेते शायिकाः सूत्रेण प्रतिवद्धाः, सिद्धत्वं तु सकलकर्मक्षयजं भवप्रपञ्चपरिवर्ति परां विशुद्विकाष्ठामितं परमक्षायिकं कालस्वभावभेदात् मुक्तकाल एव सर्वकर्माभावस्वभाव इत्यतो न प्रतिबद्धम्, ज्ञानादयस्तु संसृतौ मुक्तौ च केचित् सम्भवन्तीति विशेषप्रतिपादनार्थमग्रहणं सिद्धत्वस्येति / कथं पुनरयमाचार्याभिप्रायो गम्यते ? / उच्यते वक्ष्यति हि दशमे 'औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः' (अ०१०,०४) इति, तन्न खलु विस्मृत इहाचार्यस्यायं सिद्धत्वलक्षणो भावः, किन्तु मोक्षकाष्ठा परासाविति तत्रैवोपादास्यामहे-मोक्षाधिकार एव पठिष्यामः इत्यमुनाऽभिप्रायेण नेहाधीतः, ये पुनः कर्माष्टकैकदेशक्षयात् जातास्त इहावध्रियन्ते नवेत्यदोषः॥ __भाष्याक्षराण्यधुनाऽनुगम्यन्ते-ज्ञानमिति केवलं सकलज्ञेयग्राहि समस्तज्ञानावरणक्षयप्रभवं परिगृह्यते, न शेपमसम्भवात् , दर्शनमपि केवलाख्यमशेपदर्शनावरणीयक्षयसमुद्भूतसुपात्तम्, न शेष चक्षुराद्यसम्भवात, दानमिति वक्ष्यते लक्षणतः ' स्वस्यातिसर्गो दानं' (अ० 7, मू० 33 ) तच सकलदानान्तरायक्षयादेकस्मादपि तृणाग्रात् त्रिभुवन विस्मयकरं यथेप्सितमर्थिनो न जातुचित् प्रतिहन्यते प्रयच्छत इति, लाभ इति परस्माच्चतुवेगेस्यान्यतमसमस्तसाधनप्राप्तिः, स चाशेपलाभान्तरायकर्मक्षयादाचन्त्यमाहात्म्यविभूतिराविर्भवति / येन यत् प्रार्थयते तत् समस्तमेव लभते, न तु प्रतिषिध्यते / शुभविषयसुखानुभवो भोगः, अथवा भक्ष्यपेयलेह्यादिसकृदुपयोगाद् भोगः, स च कृत्स्नभोगान्तरायक्षयाद् यथेष्टमुपपद्यते, न तु सप्रतिबन्धः कदाचिद भवति, न वा न भवत्यभिलपित इति / विषयसम्पदि सत्यां तथोत्तरगुणप्रकर्षात् तदनुभवः उपभोगः, पुनः पुनरुपभोगाद् वा वस्त्रपात्रादिरुपभोगः, स च निरवशेष उपभोगान्तरायकर्मणि क्षीणे यथेष्टमुपतिष्ठते / अप्रतिधः शक्तिविशेष आत्मनो वीर्यम् , तचाप्रतिहतमपास्ताशेषवीर्यान्तरायकर्मणो भवति, तेन च यदिच्छति तत् सर्वमायत्तीकरोति / सम्यक्त्वं पुनरनन्तानुवन्धिकपायमिथ्यात्वमिश्रसम्यक्त्वदर्शनसप्तकक्षयादात्यन्तिकादप्रतिहतं जीवादिपदार्थश्रद्धानलक्षणमसंहार्यमुपजायते / चारित्रं तु सकलमोहक्षयात् क्षायिकमाविर्भवति / वीर्यमित्यत्रायमितिशब्दोऽर्थपदार्थकः, एतानीति सूत्रोक्तानि, चशब्दः समुच्चये, सम्यत्वचारिते च, नव क्षायिका भावा भवन्तीति // 4 // उद्दिष्टः क्षायोपशमिकोऽष्टादशधा, स इदानीमाविर्भाव्यते-- १'पारावर्ती इति ग-टी-पाठः। २'पादनार्थग्रहणं सिद्धस्येति' इति क-ख-पाठः। 3 'भव्यत्वाभन्यत्वान्यत्र' इति क-ख-पाठः / 4 'त्यभिलाष इति' ख-पाठः /