SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 141 सूत्र 2] स्वोपज्ञभाष्य-टीकालङ्कृतम् संख्येयप्रदेशोऽपि प्रदीपवदाश्रयमात्रावभासी प्रमाणत्वात् अमूर्तेभ्योऽप्याकाशादिभ्यो भिन्नजातीय इति // 1 // ___एवमेते जीवस्य स्वनिमित्ताः कर्मक्षयात्रस्थानिमित्ताश्च भावा मूलभेदतो व्याख्याताः / अधुनेषां प्रत्येक सम्भविनो भेदाः प्रतायन्ते, यथैव निमित्तान्तरादविलक्षणस्यापि जीवस्य भावानां पञ्चत्वं तथा पश्चानामपि पृथक पृथक् निमित्तापेक्षा भेदा भवन्ति, ते चाभी सूत्रम्-दिनवाटादशैकविंशतित्रिभेदा यथाक्रमम् // 2-2 // भा०-एते औपशमिकादयः पञ्च भावाः द्विनवाष्टादशैकविंशतित्रिऔपशामिकादीनां भेदा भवन्ति / यथा औपशमिको विभेदः। क्षायिको भेदसंख्या नवभेदः / क्षायिकोपशमिकोऽष्टादशभेदः / औदयिक एकविंशतिभेदः / पारिणामिकस्त्रिभेद इति / यथाक्रममिति येन सूत्रक्रमेणात ऊर्ध्व पक्ष्यामः // 2 // टी-द्विनवाष्टादशेत्यादि सूत्रम्, द्वौ च नव चेत्यादि द्वन्द्वः, पश्चाद् बहुव्रीहिः, द्विनवाष्टादशैकविंशतित्रयो भेदा येषां ते विनवाष्टादशैकविंशतित्रिभेदा औपशमिकादयः, प्रागुपन्यस्तसूत्रानुपूर्वीपेक्षं यथाक्रमग्रहणम् / एतच्च व्यतिकरदोषनिवृपए) मा भूत् पञ्चानामेकस्यैते भेदाः, समस्तानां वा एतावन्त एव, किन्तु एकैकस्य भावस्य वक्ष्यमाणाः सम्यक्त्वचारित्रे इत्यादयो यथा स्युरिति यथाक्रमग्रहणम् / इह केचिद् विद्वांसः संसारस्थानामिति वाक्यशेषमधीयते सिद्धव्यावृत्त्यर्थ, न किलेते न्यादिमिन्नास्तेषु सम्भवन्ति भावाः, एकरूपः पारिणामिक एव सम्भवति, तदेतदयुक्तम् , तत्र हि यथासम्भवं ग्रहीष्यन्ते, नावश्यं सर्वैः स्वभेदैः सर्वत्र भवितव्यम् , यथा संसारिणामपि मिथ्यादृष्टीनां न कदाचिदौपशमिकक्षायिको भनतः, अभव्यानां वा, तथा सिद्धेष्वपि यथासम्भवग्रहणमिति न किञ्चिद्वाक्यशेषेण / तथैवंरूपः पारिणामिक एव सम्भवति, तदेतदयुक्तम् , यस्मात् क्षायिकसम्यक्त्ववीर्यसिद्धत्वदर्शनज्ञानैः आत्यन्तिकैः स युक्तोऽतिनिद्वन्द्वेनापि च सुखेन, ज्ञानादयस्तु भावप्राणाः, मुक्तोऽपि जीवति स तैर्हि, तस्माज्जीवत्वं नित्यं सर्वस्य जीवस्येत्येवमादयः पारिणामिका अपि भावाः सन्ति, न परिणाम एवेत्यवधृतिः // सम्प्रति भाष्याक्षराणि विवियन्ते-एत इति प्रत्यक्षासन्नवाचिना सर्वनाम्नाऽनन्तरसूत्रनिर्दिष्टान् भावानभिमुखीकरोति, औपशमिकाद्य इति प्रतिविशिष्टं क्रममाचष्टे, भावा इति भवनलक्षणा जन्तोः परिणतिविशेषाः, पञ्चेति सङ्ख्ययाऽवधारणं तेषाम् , एतावता भाष्येणानूध पूर्वकमर्थमधुना भेदान् विधत्ते द्विनवेत्यादिना / इदं च सूत्रमेकमेवाचार्येण खण्डीकृत्याधीतम्, न पुनर्विवरणमस्य, कुत एतद् भवतीति ? मूत्रमध्ये उच्चार 'क्षायोपशमिक' इति घ-पाठः / 2 'संसारस्थायिनाम् ' इति ग-टी-पाठः / 3 'वाक्यशेषमभिदधत' पचितं प्रतिभाति /
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy