________________ 140 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 मरकगतिनाम विपकं सदौदयिकशब्देनोच्यते कषायमोहनीयं च विपकं क्रोधादि तत् कथं जीवस्य स्वतत्त्वं स्यात्? यतः कर्म पौगलिकं मूर्तमचेतनं,आत्मस्वभावस्तु तद्विपरीत इति। उच्यतेननूक्तमेव प्राय उपलक्षणभूताश्चैते प्रायः पार्थक्येनापि वर्तमाना धूमवदग्नेरात्मनो भावाः गमका भवन्ति हेयाश्च, अथवा य एते गत्याद्याः परिणामविशेषाः स जीव एव कर्मावष्टम्भजनितपरिणामानन्यत्वात् , अन्योऽन्यानुगतौ सत्यामविभागात् , तदात्मकत्वमुदकदुग्धयोरिवात्मकमणोः, अतः स्वतत्त्वमात्मनो गत्यादयः, सैव हि चेतनाऽनपायिनी कर्ममलदिग्धाऽनेकावस्थान्तरावस्कन्दिनी तथा व्यपदिश्यते इति न दोषः / कश्चिदाढौकते-परिणाम एव हि पारिणामिक इति स्वार्थे प्रत्ययो न प्रयोजननिर्वृत्त्योः, किं कारणम् ? आदिमत्त्वप्रसङ्गाजीवभव्याभव्यत्वादेः, यदि परिणामः प्रयोजनमस्येति व्युत्पत्तिः पारिणामिको जीव इति ततः प्रागवस्थायां नाभूजीव इति, युक्त्यागमाभ्यां चैष पक्षो विरुध्यते, एवं निर्वृत्यर्थेऽपि प्रागनिर्वृत्तौ निर्व]त, स एव दोषः, तथा भव्याभव्यत्वादिष्वपि योज्यम् / युक्तिविरोधस्तावत् कथमसन् खरविषाणकल्प आत्मोत्तरकालं सम्भवेत् ? / आगमश्चायम्-"एस ण भंते! जीवे तीतमणंतं सासयं समयं भवतीति वत्तव्वं सिया? हंता गोयमा! एस. णं भंते ! जीवे पहुप्पणं सासयं समयं भवतीति वत्तव्वं सिया ? हंता गोयमा ! एस णं जीवे अणागयमणंतं सासतं समयं भविस्ततीति वत्तव्वं सिया ? हंता गोयमा" (भगवत्यां श०१४, उ०४,सू०५११) तस्माद् युक्त्यागमविरोधौ मा भूतामिति / परिणाम एव हि पारिणामिक इति स्वार्थे प्रत्ययो न प्रयोजननिवृत्योः, किं कारणम् ? आदिमत्त्वप्रसङ्गात पारिणामिकोऽनादिप्रसिद्धः सकलपर्यायराशेः प्रहतामभिमुखतां प्रतिपद्यमानोऽशेषभावाधारतां विभतीति नामुना विना कस्यचिद् भावस्य निष्पत्तिः, अतश्च प्राधान्यमस्यैव भावानां मध्ययिति / पारिणामिकशब्देन च द्रव्यभावप्राणावस्थाख्यः परिणाम उच्यते, तथा सेधनयोग्यः परिणामो भव्यः, अभव्यस्तु न कदाचित् सेधनयोग्यः परिणाम इति / सूत्रपर्यन्तवर्ती चशब्दः समुच्चये, औपशमिकादयो भावाः जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च स्वतत्त्वमिति भावानां पर्यन्ते च वृत्तावितिशब्दोऽर्थपदार्थः; क एते औपशमिकाद्यर्थाः पञ्च भावाः ? जीवस्य स्वतत्त्वं भवन्ति, विनाऽप्येवकारेण सङ्ख्याशब्दोपादानादवधृतिर्गम्यते पश्चैवाऽन्यूनाधिका भावाः पर्यायाः जीवस्य स्वतत्त्वमुपलक्षणद्वारेण भूयसा भवन्ति / एते च सर्वजीवेषु सर्वदा साकल्येन न भवन्तीत्युपलक्षणमात्रमतो द्रष्टव्याः। एवमौपशमिकादिभावयुक्तो द्रव्यं जीवः सङ्कोचविकासस्वभावो लोकाकाशप्रदेशमाना 1 एष भदन्त ! जीवः अतीतेऽनन्ते शाश्वते समये भवतीति वक्तव्यं स्यात् ? हन्त गौतम !, एष भदन्त / जीवः प्रत्युत्पन्ने शाश्वते समये भवतीति वक्तव्यं स्यात् ? हन्त गौतम 1, एष जीव अनागतेऽनन्ते शाश्वते समये भविष्यतीति वक्तव्यं स्यात् / हन्त गौतम | २'नीयमाणं' इति ग-टी-पाठः। ३'भुवीति' इति ग-टी-पाः। 4 'सासयं' इति ग-टी-पाठः।