________________ सूत्र 1] स्वोपज्ञभाष्य-टीकालङ्कृतम् 139 एह अत्थेगइयं नो वेएइ, णायमेवं अरहता विण्णायमेयं अरहता-अयं जीवे इमं कम्म अज्झोवंगमियाए वेयणाए वेदिस्सति, अयं जीवे इमं कम्मं उवकमियाए वेयणाए वेदिस्सति अहाकम्मं अहाक(निग)रणं जहा जहा तं भगवया दिढे तहा तहा विपरिणमिस्सतीति से तेणं अटेणं गोयमा ! एवं वुच्चति" (भगवत्यां श०१, उ० 4, मू०४०) अतोऽस्ति विशेषः औपशमिकक्षायोपशमिकयोरिति / अत्रापि त एव दर्शनादिपर्यायाः श्रद्धानादिलक्षणाः प्रदेशकर्मोदययुजः क्षायोपशमिकशब्दवाच्या भवन्ति, चशब्दः समुच्चयार्थः, औपशमिकक्षायिको स्वतत्त्वं मिश्रश्च स्वतत्त्वमिति / जीवस्येति कर्तृलक्षणा षष्ठी, जीवत्यैवैते त्रयो भावाः, नान्यस्य स्तम्भकुम्भादेः, वक्ष्यमाणदर्शनादिकलापानुपलब्धेः, इह च जीवशब्द आत्मपर्यायः शुद्धो गृह्यते, नायुःप्राणसम्बन्धोद्भासितो जीवनाजीव इति, मुक्तानां तदनभिसम्बन्धात् / अथवा द्रव्यभावप्राणसामान्याङ्गीकरणे सति प्रतिविशिष्टसम्बन्धापेक्षः शब्दो भवत्येव जीवनाज्जीवः, संसारिणः द्रव्यप्राणाः पश्चेन्द्रियादयः, सिद्धानां भावप्राणाः ज्ञानोपयोगादय इति / स्वतत्त्वमित्ययं स्वशब्द आत्मात्मीयादिषु प्रसिद्धः, तत्रात्मनि वर्तमानोऽ ङ्गीक्रियते, तत्वशब्दो भावाभिधायी, ततश्चायं समुदायार्थः-जीवस्यायमात्मा भावः जीवस्यायमात्मस्वरूपभवनम् , एवमौपशमिकादिरूपेणात्मनैव स तथा भवतीति, अव्यतिरेकलक्षणा चेयं कर्तुरनन्तरं षष्ठी, स्वतत्त्वं च पदार्थानामनध्यारोपितमनपोदितं च भवति, सर्वदा जीवश्चेतनालक्षण इति नाध्यारोपितं, नापोदितं किंचित्, चेतनायाः सुखदुःखादिसाधारणसंवेदनलक्षणायाः प्रति स्वं प्राणिविशेषप्रतिसंवेद्यत्वात्, तत्राध्यारोपो विभुनिरवयवनिष्क्रियादिधर्मकत्वेन, अपवादो नास्त्यात्मा न प्रमाणविषयो.न च त्वकपर्यन्तशरीरसम्बन्धीति, स्वानुभव विरुद्धत्वात् , अध्यारोपे चाप्रमाणकत्वात् , यदेव प्रत्यात्मप्रसिद्धं तदेवास्य लक्षणम, वक्ष्यति च द्वितीयप्रश्नमधिकृत्य कथंलक्षणो वेति, 'उपयोगोलक्षणं' (अ०२, मु०८) इति, चेतनाविशेपलक्षितस्य च कर्मोदयाद्यपेक्षाणि भावान्तराण्यधिकृत्य को जीव इत्यत्र प्रश्ने प्रतिपत्तिराहिता आत्मनः, एकरूपमपि चैतन्यस्वतत्त्वं कर्मक्षयोपशमायवस्थाविशेषनिमित्ताद्वयपदेशाद्भावेयत्तानियमं प्रतिपद्यते, उपलक्षणभूताश्चैते प्रायः कर्मापेक्षत्वाद् भवन्ति स्वतत्त्वं, यथा चक्षुारकज्ञानविषयो रूपमिति, उपयोगः पुनः स्वतत्वं यथा मृती रूपमिति, तथा चाग्नेरुष्णत्वरच्चैतन्यलक्षणमहेयमात्मनः, तस्यैवाग्नेधूमवदौपशमिकादि प्रायो हेयमुपलक्षणमिति / कर्मविपाकाविर्भाव उदयः तत्प्रयोजनस्तनिवृत्तो शा औदयिको भावः / तद्यथा-नरकगतिनामकर्मोदयानरकगतिरौदयिकोऽभिधीयते भावः, कपायमोहनीयोदयाच क्रोधी मानीत्याद्यौदयिकः, सर्वत्रैवं वासनाऽऽधेया, यद यत्र भागकर्म तदस्त्येककं वेदयति, अस्त्येकक नो वेदयति, ज्ञातमेतदहता, विज्ञातमेतदर्हता-अयं जीव इदं कर्म आभ्युपगमिक्या वेदनया वेदयिष्यति / अयं जीव इदं कर्म औपक्रमिक्या वेदनया वेदयिष्यति, यथाकर्म यथानिकरणं स्था यथा भगवता दृष्ट तथा तथा विपरिणस्यति इति तत् तेनार्थन गौतम / एवमुच्यते / 'अल्झोद गमियाए ' इति ग-टी-पाठः। 2 'निमित्ताद्यपदेशात् ' इति ग-टी-पाठः।