________________ सूरिकतटीका ] सम्बन्धकारिकाः लिखिताः तासु न श्रमोऽमिशङ्कयः, प्रसङ्गभयात् प्रायो निगदोक्तार्थत्वाच्च न विमर्दः / अतः परं शास्त्रं भवतीति // 31 // इतीयं कारिकाटीका, शास्त्रटीकां चिकीर्षुणा / सन्दृब्धा देवगुप्तेन, प्रीतिधर्मार्थिना सता // अनुष्टुप श्रीवर्द्धमानस्वामिने नमः / अथ श्रीसिद्धसेनगणिप्रणीता द्वितीया टीका प्रारभ्यते / ___ अवतरणम्जैनेन्द्रशासनसमुद्रमनन्तरत्न-मालोडय भव्यजनतोषविधायि येन / रत्नत्रयं गुरु समुद्धृतमिद्धबुद्धथा, तत्त्वार्थसङ्ग्रहकृते प्रणमामि तस्मै // 1 // वसन्ततिलको स एवधीपो' विधुरां धियं मे, नयप्रमाणादिविचारनीतौ। पटुं विधत्तां व्यसनावमने, कुर्वन्ति सन्तः करुणामवश्यम् // 2 // उपजातिः सविसविस्तीर्णरुचिप्रबोधैः, पूर्वैर्मुनीशैर्विवृतेऽपि शाख्ने / , यातुं पथा वाञ्छति मध्यमेन, बुद्धिर्मदीया परिपेलवापि // 3 // इन्द्रवजा उक्तं जिनेन्द्रैर्जगदेकनाथैः, सर्व नयद्वैतमतानुसारि / ज्ञेयस्वरूपं प्रविभज्य सम्यक, संयोजनं केवलमेव चिन्त्यम् // 4 // " विमुक्तिमार्गे मुनिनाथदेशिते, व्यधायि मौढ्याद यदसाम्प्रतं मया। तितिक्षता तत् सुजनः समाधिना, विलोक्य रन्धैषितया विना कृतः॥५॥ उपेन्द्रवज्रा मोक्षमार्गोपदेशः श्रेयान् परिनिर्वाणस्य पुरुषार्थप्राधान्यात, दुःखोद्वेगाद्धि जीवलोकः सुखप्रेप्सया च क्लेशार्तिहेतून परिजिहीर्षन सुखानन्दनिमित्तोपादित्सया च सर्वक्रियासु प्रवर्तते / सुखदुःखप्राप्त्यभावश्च लोके तन्त्रान्तरेषु च सनिकृष्टकारणभावोऽमीप्स्यते धर्मस्यार्थकामयोश्च / सुखं हि द्विविधं वैषयिकभेदानिर्वाणप्राप्तिलब्धात्मस्थसुखमेदाच, तत्र यन्मौक्षं सुखं तदात्यन्तिकमैकान्तिकमनतिशयमनाबाधकं केवलं निरावा, स्वाधीनं च, शश्वदप्रतिपातादात्यन्तिकं, व्यतिकीर्णसुखदुःखहेतुभावार्थान्तरानपेक्षत्वादैकान्तिकम्, प्रकर्षकाष्ठावस्थानादनुत्तरत्वादनतिशयम्, प्राण्युपमर्दनजलौकिकसौख्यवैपरी....१ वसन्ततिलका-लक्षणम् - “उका वसन्ततिलका तभजा जगौ गः"। २'धीरो विकला' इति क-पाठः / 3 उपजाति-लक्षणम्"स्यादिन्द्रवजा यदि तौ जगौ गः, उपेन्द्रवजा जतास्ततो गौ। अनन्तरोदीरितलक्ष्मभाजौ, पादौ यदीयावुपजातयस्ताः " //