________________ तत्त्वार्थाधिगमसूत्रम् [ श्रीदेवगुप्तश्रेयो नान्यदिति, निर्गतविचारं निःशङ्कमित्यर्थः / ग्राह्यमध्ययनश्रवणाभ्यां, धार्यमनुप्रेक्षणादिभिः, वाच्यमर्थविचारणादिभिः / ग्रहणधारणे तावदात्मोपकारिणी // 28 // किं पुनर्वाचनयेति चोदितेऽध्यापनस्यैव गौरवख्यापनार्थ आत्मप्रयत्नदृढीकरणार्थ चाह न भवति धर्मः श्रोतुः, सर्वस्यैकान्ततो हितश्रवणात् / / ब्रुवतोऽनुग्रहबुद्धया, वक्तुस्त्वेकान्ततो भवति // 29 // आर्या व्या०-न भवतीत्यादि / श्रोता हि कदाचिदन्यमनस्को दुष्टान्तरात्मा वा शृणुयाद, एवंविधस्य श्रोतुर्न हितश्रवणमात्रादेवैकान्तेन धर्मोऽस्तीति दर्शयति / हितग्रहणमानेडनार्थ, हितमपि तावत् शृण्वतां न सर्वेषां धर्मः किं पुनरहितमिति / ब्रुवत इत्यादि, वक्ता हि यदा स्तुतिमानलाभादिनिरीहः कथममी श्रोतारोऽनुगृहीताः प्रतिबुध्येरन्नित्यवाप्तबुद्धिर्हितमुपदिशति तदाऽस्यैकान्ततो भवति धर्मः / एवं च कृत्वा खपरिणामो नः प्रवचनेषु शुभाशुभोपचयं प्रति परं प्रमाणमिति दर्शितम् / न चात्रात्मनेपदाशङ्का, निराकृतं हि स्तुत्यादिक्रियाफलं, निरनुबन्धाभिप्रायात्, न च धर्मोऽप्यभिप्रेतः, अवश्यंभावी त्वसावित्युक्तः // 29 // एवं निश्चित्याहश्रममविचिन्त्यात्मगतं, तस्माच्छ्रेयः सदोपदेष्टव्यम् / आत्मानं च परं च (हि), हितोपदेष्टाऽनुगृह्णाति // 30 // आर्या व्या०–श्रममित्यादि। यो हृदयशोषादिरात्मगतः श्रमस्तमविगणय्य-नैतन्मम दुःखमिहेव चैतत्सूपयुक्तं शरीरमिति परिचिन्त्योपदेष्टव्यं, तस्मादिति प्रक्रान्तप्रयोजनमुपसंहृत्य निचिनोति, अयं विनिश्चयो यदुत श्रेयो मोक्षमार्गः सर्वकालमुपदेष्टव्यः, न पुनरश्रेयः सावद्यमिध्याश्रुतमात्मपरोपघातीति / इदं च पुनः श्रेयस उपदेशप्रयोजनं निर्धार्य आह, आत्मानमित्यादि, यदयं श्रुत्वा पापेभ्यो निवृत्त्य हितेषु प्रवर्तमानः कल्याणभागी भवति स तत्रोपदेष्टा हेतुरित्युभावपि हितोपदेशेनानुगृह्यते इति // 30 // विद्याशिल्पकलायुपदेशेष्वपि हितबुद्धिस्तदर्थिनामित्यादिनिराकरणार्थमाह-- नर्ते च मोक्षमार्गाद्, हितोपदेशोऽस्ति जगति कृत्स्नेऽस्मिन् / तस्मात् परमिदमेवे-ति मोक्षमार्ग प्रवक्ष्यामि // 31 // आर्या व्या०-नर्ते चेत्यादि / विगतद्वन्द्वसन्निपाताव्ययपदप्रापणहेतोर्मोक्षमार्गादृते नान्यो हितोपदेशः कृत्स्नेऽप्यस्मिन् जगति विद्यते / ये त्वन्ये रागबुद्धिविकल्पवशेन हितोपदेशत्वेन गृहीतास्ते भवबीजानुबन्धित्वाद्धितोपदेशाभासा अपि न भवन्ति, कुतो हितोपदेशाः / / यतश्चैवं, तस्मादित्यादि, तसादित्युपसंहरति / परमुत्कृष्टं इदमेव हि हितोपदेशम् , अनन्तरं मोक्षमार्गः, इति एवमर्थे, एवं निर्धार्य वक्ष्यामि, समाप्तौ वा, अलमतिप्रसङ्गेन // अधुनोपन्यासप्रयोजन-मोक्षस्य मार्ग आदौ वक्ष्यामि प्रवक्ष्यामीति / एतावत्य एता आर्याश्चात्र नामि