________________ * सूरिकृतटीका ] सम्बन्धकारिकाः व्योम्नीन्दं चिक्रमिषेन्, मेरुगिरि पाणिना चिकम्पयिषेत् / गत्यानिलं जिगीषे-चरमसमुद्र पिपासेच्च // 25 // आर्या किञ्च, खद्योतकप्रभाभिः, सोऽभिबुभूषेच भास्करं मोहात् / योतिमहाग्रन्थार्थं, जिनवचनं संजिघृक्षेत॥२६॥”–विशेएकम् व्या-शिरसेत्यादि / भेत्तुमिच्छेत्, उचिक्षिप्सेच्च स क्षितिं दोभ्या, तमेव गिरि सह क्षित्योत्क्षेप्तुमिच्छेत्, दोभ्या बाहुभ्यां, प्रतितीपेच्च समुद्रम् तरीतुमिच्छेत्, दोामिति वर्तते, मित्सेच पुनः कुशाग्रेण, तमेव समुद्रमुदबिन्दुपरिमाणाधिगमाय कुशाग्रेण मातुमिच्छेत् // 24 // ___व्या०-खद्योतकेत्यादि / खद्योतकैर्भास्करमभिभवामीति भास्करोऽहमित्येवमिच्छेत्, मोहात् मृढो निरर्थकमुन्मत्तोऽनात्मज्ञः, मोहादिति च गिरिभेदादिषु सर्वत्र सम्बध्यते, योऽतीत्यादि, अतिमहाग्रन्थार्थ जिनवचनं यः संग्रहीतुमिच्छति स इदं प्रक्रान्तं सर्वमध्यवस्येदित्यर्थः // 26 // ___ एवं चोदित आचार्यः सर्वमेतदेवमित्यनुज्ञापवादमाहएकमपि तु जिनवचनाद्, यस्मान निर्वाहकं पदं भवति / श्रूयन्ते चानन्ताः, सामायिकमात्रपदसिद्धाः // 27 // आर्या व्या०–एकमपीत्यादि। एकमपि पदं, किं पुनरियान् सप्तपदार्थसंग्रह इति तुशब्दो विशेषयति, जिनवचनादित्यवच्छेदे पञ्चमी, यथा समूहाच्छुक्लं प्रकाशते / यसादिति कारणे पञ्चमी / यस्मात् कारणानिर्वाहकं सुगृहीतमप्यभ्यस्यमानमुत्तरोत्तरज्ञानकारणत्वाद भवोत्तारकमित्यर्थः / न चेयं स्वमनीषिका इत्याह, श्रूयन्ते इत्यादि, श्रूयन्ते चानन्ता इति चशब्दः समुच्चये, बीजलाभात् तदविनाशादुत्तरोत्तरवृद्धिसम्भवोऽवसीयते / श्रूयन्ते चेत्यभिप्रायमात्राऽवधारणे, एवं श्रूयन्ते प्रवचने-'करोमि मदन्त ! सामायिकमित्येतावतैव पदेन भावतः सुगृहीतेनानन्तकालेन अनन्ताः सिद्धा' इत्युक्तं प्रवचने, उदाहरणमात्रं तुषमाषैः स्वाध्याय इति // 27 // ___ यसाच्चैवमागमो निर्वाहकमिति चावसीयतेतस्मात् तत्प्रामाण्यात्, समासतो व्यासतश्च जिनवचनम् / श्रेय इति निर्विचारं, ग्राह्य धार्य च वाच्यं च // 28 // आर्या व्या०–तस्मादित्यादि / तस्मादागमप्रामाण्यात् , समासतः संक्षेपेण, व्यासतो विस्तरेण, यथाशक्त्याऽध्येयं जिनवचनं, न पुनरवमन्तव्यमिति दर्शयति, श्रेय इति, इदमेव हि