________________ सूत्र 31 ] स्त्रोपज्ञभाष्य-टीकालङ्कृतम् 111 नोरत्यन्तसंयोगे" ( पाणिनिः अ० 2, पा० 3, सू० 5 ) इति द्वितीया, “अव्ययीभावो या विभनत्यादिपु" (पा० अ० 2, पा० 1, 90 6 ) वारंवारेणोपयोगो भवतीतियावत् / एकस्मिन् समये केवलज्ञानोपयोगे वृत्ते ततोऽन्यस्मिन् केवलदर्शनोपयोग इति, एवं सर्वकालमवसेयम् / यद्यपि फेचित् पण्डितम्मन्याः सूत्राण्यन्यथाकारमर्थमाचक्षते तर्कवलांनुविद्धबुद्धयो वारंवारेणोपयोगो नास्ति, तत् तु न प्रमाणयामः, यत आम्नाये भूयांसि सूत्राणि वारंवारेणोपयोग प्रतिपादयन्ति-"नाणम्मि देसणम्मि य एत्तो एगयाम्मि उवउत्ता" (प्रज्ञापनायाम्)। तथा-" सव्वस्स केवलिस्सवि जुगवं दो नत्थि उवओगा" (वि० 3096 ) इत्यादीनि / अथैवं मन्येथाः सूत्राणामेपामन्य एवार्थोऽन्य एर्वोव्युत्पन्नबुद्धिभिराख्यायत इत्येतदपि तु दुःश्रद्धानम् , यतः सर्वस्त्राण्यन्धपुरुपस्थानीयानि सुधिया गृहीतानि शक्नुवन्त्यर्थं ख्यापयितुं, यथा श्वेतो. धावतीत्यादि, एवंविधेषु च सूत्रेष्ववश्यमाप्तसम्प्रदाय एवान्वेपणीयो भवति, स चाविच्छेदेनार्थसम्प्रदायः समस्तश्रुतधरादधिकारिणः परिप्लवमानो मुनिपरम्परया याबदद्येत्यागमादविगानेन वारंवारेणोपयोग इति, कुतः पुनरर्थागमोऽकस्मात् उपयोपवादिनः? स्वत एव चेत् प्रेक्षितः स्वमनीषिका सिद्धान्तविरोधिनी न प्रमाणमित्यभ्युपेयते / / अथागमात् प्रदर्शनीयः तासौ तस्माद् यत्किञ्चिदेतदिति / अथ मन्यसे साकारोऽनाकार इति शब्दभेदः केवलमत्र फेवलिनि अर्थस्त्वमिन्न एव, यतः सर्वमेव विशेपपरिच्छेदकं ज्ञानं केवलिनि समस्ति न दर्शनमिति, इदमपि न जावट्यते ज्ञानावरणं भगवतः क्षीणं दर्शनावरणीयं च निरवशेष, तत्रैकत्वे सति कोऽयमावरणभेदाभिमानो निष्प्रयोजनः ? / तथा साकारोपयोगोऽष्टधा दर्शनोपयोगश्चतुर्धेति, तथा ज्ञानं पञ्चधा दर्शनं चतुर्धेति, एकत्वे सति कुत इदमपि घटमानकं ? न चातीवाभिनिवेशोऽस्माकं युगपदुपयोगो मा भूदिति, वचनं न पश्यामस्तादृशम् , क्रमोपयोगार्थप्रतिपादने तु भूरि वचनमुपलमामहे, न चान्यथा जिनवचनं कर्तुं शक्यते सुविदुपा पीति, प्रकृतमनुस्रियते / एतस्मात् केवलज्ञानोपयोगात् केवलदर्शनोपयोगाच विनाऽन्यस्य उपयोगस्य अभावात् केवलिनि मत्यादिज्ञानचतुष्टयसहभावो न गम्यते / किंचान्यदित्युपपत्त्यन्तरमालम्बतेभायोपशमिकक्षा- भा०-क्षयोपशमजानि चत्वारि ज्ञानानि पूर्वाणि, क्षयादेव यिकतया भेदः केवलम् / तस्मान्न केवलिनः शेषाणि ज्ञानानि भवन्तीति॥३१॥ ____टी०-मत्यादीनि चत्वारि मनःपर्यायपर्यवसानानि ज्ञानानि मतिश्रतावधिमनःपर्यायावरणीयकर्मणां क्षयोपशमावुररीकृत्य प्रवर्तन्ते, तदावरणीयकर्मक्षयोपशमनिमित्तानि, केवलं पुनः क्षयकारणमेव, तस्मान्न केवलिनः शेषाणि ज्ञानानि सन्तीति / अन्येषां तु १'नुविशुद्धबुद्धयः' इति क-ख-पाठः, 'तर्कबलात् तु विशुद्धबुद्धयः' इति घ-टी-पाटः। 2 ज्ञाने दर्शने च अनयोरेकतरस्मिन् उपयुक्ताः / सर्वस्यापि केवलिनो युगपद् द्वावुपयोगी न स्तः / 4 'एव व्युत्पन्न ' इति क-ख-ग-पाठः। ५'सन्तीति ' इति घ-पाठः /