________________ 110 तत्वार्थाधिगमसूत्रम् [अध्यायः उद्योतनं प्रति अकिश्चित्कराणि भवन्ति न किश्चिद् बहिरवस्थितं कुडयादिविषयं प्रकाशयन्ति, हतप्रभावत्वात् , तद्वदिति तेन प्रकारेण केवलभास्वता भूरितेजसाऽऽक्रान्तानि न विपयप्रकाशनं प्रति व्याप्रियन्ते // सम्प्रति पराभिप्रायेणैव मत्यादिज्ञानचतुष्टयस्य केवलेन सहानवस्थानं दर्शयति भा०-केचिदयाहुः-अपायसद्व्य तया मतिज्ञानं, तत्पूर्वकं श्रुतज्ञानम्, अवधिज्ञानमनःपयोयज्ञाने च रूपिद्रव्यविषये, तस्मान्नैतानि केवलिनः सन्तीति॥ टी०-कचिदप्याहुरित्यादि / केचित् पुनर्बुवते-नैतानि मत्यादीनि केवलिनः सन्ति, यस्मान्मतिज्ञानं अपायसदद्व्यतया भवति, अपायो नाम श्रोत्रादीन्द्रियोपलब्धस्येहितस्या र्थस्य निश्चयः, नैवंविधोऽपायः केवलिनोऽस्ति, यावच्च शोभनानि सम्यग्दलिकानि सन्ति तावन्मतिज्ञानं, तदेतद द्वयमपि दूरोत्सारितं केवलिन इति नास्ति मतिज्ञानं केवलिनः, मतिज्ञानाभावे च मतिपूर्वकस्य श्रुतस्य सुतरामभाव इत्यतः श्रुतमपि नास्ति, अवधिमनःपर्यायज्ञाने च रूपिद्रव्यविषये गदिते, न चैवंविधोऽस्ति विषयः केवलिनः, सम्भिन्नलोकालोकग्राहित्वात् , तस्मात् ते अपि न स्त इति, तस्मादुपपत्तिबलादेतानि चत्वारि केवलिनो दिव्यदृश्वनो न सन्ति। भा०–किश्चान्यत् / मतिज्ञानादिषु चतुर्यु पर्यायेणोपयोगो भवति, न युग पत् / सम्भिन्नज्ञानदर्शनस्य तु भगवतः केवलिनो युगपत् कमयुगपदुषः सर्वभावग्राहके निरपेक्षे केवलज्ञाने केवलदर्शने चानुसमयमु. योगी पयोगो भवति // किं चान्यत् / -किश्चान्यदित्यादिना स्वाभिप्रायद्वयं प्रकाशयन्ति-मतिज्ञानादिषु चतुर्यु मतिश्रुतावधिमनःपर्यायज्ञानेषु पर्यायेण-क्रमेण उपयोगः-स्वीयविषयग्राहिता भवति न युगपत् , कस्मिन् काले न स्वस्व विषये एषां व्यापारः 1 यदा मतिज्ञानी मतिज्ञानेनोपयुक्तो न तदा श्रुतादीनामन्यतमेन केनचित् , यदा च श्रुतज्ञानेनोपयुक्तो न तदा मत्यादीनामन्यतमेनेति, केवलिनस्तु न क्रमेणैतज्ज्ञानगतोऽस्त्युपयोगः, यतः सम्भिन्न इत्यादि / ज्ञानं - विशेषग्राहि, दर्शनं-सामान्यग्राहि, ज्ञानं च दर्शनं च ज्ञानदर्शने, सम्भिन्ने-सर्वद्रव्यपर्यायग्राहके ज्ञानदर्शने यस्य स सम्भिन्नज्ञानदर्शनः तस्य, एवं माहात्म्यादिगुणान्वितस्य भगवतः, केवलं-सर्वार्थप्राहि ज्ञानं यस्यास्ति तस्य केवलिनः, युगपत्-एकस्मिन् समये, केवलज्ञाने अनुसमयमुपयोगो भवति दर्शने च / कीशि केवलज्ञाने दर्शने वा ? / उच्यतेसर्वभावग्राहके / सर्वे भावाः-पश्चास्तिकायास्तेषां ग्राहक, विशेषेण परिच्छेदकमित्यर्थः / निरपेक्षे / निर्गता अपेक्षा ज्ञेयं मुक्त्वाऽन्यत्र इन्द्रियादौ यस्य तनिरपेक्षं तस्मिनिरपेक्षे केवलज्ञाने विशेषग्राहिणि दर्शने च सर्वभावग्राह के निरपेक्षे सामान्यग्राहिणि / अनुसमयमुपयोगो भवतीति / अनुगतः-अव्यवहितः समयः-अत्यन्ताविभाग: कालो यत्र कालसन्ताने स कालसन्तानोऽनुसमयस्तमनुसमयं कालसन्तानमुपयोगो भवति, “कालाध्व