________________ 220 तन्वार्थाधिगमसूत्रम् [ अध्यायः न्दपरिणामप्रयोगकारणाभ्यासादासादितमनेनायुर्जन्तुनाऽतीतजन्मनि तदपवर्तनार्हमाचक्षतेधतक्लेशाः / यः पुनरतिमहान्तं धातुक्षोभमाश्रित्यापथ्यनिदानासेवनादिना समजनि व्याधिरतिदीर्घकालकलापापादितजरठिमासमुपगृढनिरवशेषाङ्गोपाङ्गसङ्घातः कुष्ठक्षयादिः, स खलु मेषजप्रकारमनेकमुपचीयमानमनुदिनमप्यवगणय्य सञ्जातबलः क्षिप्रमाक्षिपति तं रोगिणमकाम एव, न खलु प्रयत्नपरमेण धन्वन्तरिणापि शक्यः समुच्छेत्तुम् / एवं हि तीव्रपरिणामप्रयोगवी जजनितशक्ति तदायुरात्तमतीतजन्मनि न शक्यमन्तराल एवावच्छेत्तुमित्यनपवर्तनीयमुच्यते। तथा हि-कालाकालसमाप्त्योरायुषःसम्भवत्यनेकं निदर्शनं, तबलाच्च प्रतीतिरुपजायते श्रोतुः, अतस्तदभिधानमाम्रफलपाकवत् भसकव्याधिपरिगतपुरुषभोजनवत् वेष्टितार्द्रपटविततशोपवत्, वेष्टितपलालवृतरज्जुप्रगुणीकृतदाहवत्, एकार्थेषु बुद्धिमन्दग्राहककालभेदवत्, एकमार्गेऽश्वपगुगमनभेदवत् , यथैता भिन्नकालानुवर्तिन्योऽप्यवस्थास्तुल्यनिदर्शनगतास्तथा तुल्येऽपि कर्मणि स्वपरिणामादिक्रियाविशेषाद् भिन्नोऽनुभवकालः परममध्यमजघन्याख्यः, तसाद द्विविधमायुरपवर्तनीयमनपवयं चेति व्यवस्थितम् // अधुनाऽनपवर्तनीयायूंषि द्विविधान्यभिघित्सुराह-अनपवर्तनीयानि पुनर्दिविधानि-सोपक्रमाणि निरुपक्रमाणि च / तत्रोपक्रमणमुपक्रमः प्रत्यासन्नीकरणकारणमुपक्रमशब्दाभिधेयम्, अतिदीर्घकालस्थित्यप्यायुर्यन कारणविशेषेणाध्यवसानादिनाऽल्पकालस्थितिकमापाद्यते स कारणकलाप उपक्रमः,तेन तादृशो पक्रमेण सोपक्रमाण्यनपवर्तनीयान्यायूंषि भवन्ति / निर्गतोपक्रमाणि निरुपअपवर्तनेऽपि MTHG कमाण्यध्यवसानादिकारणकलापाभावात्, येथैव तजिहास्यते अतिदीर्घका लस्थितिस्वपरिणतिविशेषात् तथा अल्पमपि वृद्धिमापादयिष्यते रसायनाद्युपयोगतश्चेत् तन्न, अबद्धत्वात्, जन्मान्तरे हि बद्धमायुस्तावता वा कालेनानुभूयेत ह्रस्वीयसा वाऽध्यवसानादियोगात् आभिचारिककर्मणाऽवाप्य कालफलपाकवत् स्याद्, अबद्धं पुनर्न शक्यते संवर्धयितुममृतोपयोगेनापि / यथा हि दीर्घपटः प्रागुक्तो वेष्टनयाऽल्पः शक्यः कर्तुं न पुनर्प्रधिमानमापादयितुमनुपात्ततावदलिकत्वात् / स्यादेतद् रसायनाद्युपयोगाद् यावस्थितिकमा प्रागायुस्तावती स्थितिमखण्डयत् तदासीत न पुनवेद्धिमश्रद्धेयामाधातुमलं तदिति / अत्र च किलौपपातिका असङ्ख्येयवर्षायुषश्च निरुपक्रमा एव, चरमदेहाः उत्तमपुरुषाश्च सोपक्रमा निरुपक्रमाश्च // नन्विदं विप्रतिषेध्यमनपवायुषः सोपक्रमाचेति / उच्यते-अध्यवसानाद्युपक्रमकारणानि किल सन्त्यमीषां चरमदेहोत्तमपुरुषाणां न पुनरायुरपवत्येते, सत्स्वपि तेष्वनपवायुष्टात् , न खलूपक्रमसनिधानं तत्र प्रतिषिध्यते, किन्तु सत्यप्युपक्रमकारणसानिध्येऽतिगाढवन्धत्वान्न तदायुरपवर्त्यते // ननु चौपपातिकासङ्ख्येयवर्षायुपामपि तुल्यमेतत् सनिधानमिति / उच्यते-सत्यम्, नारकादीनामुपक्रमकलापः सन्निहितस्तथापि ते सोपक्रमायुपो न भण्यन्ते १'मार्गेऽधपङ्गु' इति ख-पाठः। 2' तथैव ' इति ख-पाठः /