________________ सूत्रं 51] स्वोपज्ञभाष्य-टीकालङ्कृतम् 219 मनः किमकालमृत्युरप्यस्तीति, तत एव आयोधनादक्षतवपुषः परिणति(त )शतजर्जरसकलसन्धयः स्थविरास्तीव्रतिहस्तास्तीरयित्वा समरमपगच्छन्तोऽवलोक्यन्ते, अतोऽवगम्यते-न खलु कश्चिदकाल एव विषमाण्यवगाहमानोऽपि शरशतापादितक्षतिरपि प्रकृष्टदुःखवेदनार्को मरणमभिलपन्नपि प्राणैर्वियुज्यते, एवमनेकस्मिन् संशयबीजप्रसवे सति प्रश्नप्रवृत्तौ प्रतिवचनमुच्यतेद्विविधान्यायूंषि-अपवर्तनीयान्यनपवर्तनीयालि चेति / अकाले मृत्योरस्ति सम्भव इत्येवंविधार्थप्रदर्शनपरायणमिदमारतीयते भाष्यम् / द्विविधान्यायूंपि-जीवितानि भवन्ति, र प्रयोगविशेषाच्च द्वैविध्यं, न स्वभावात्, तत्रायुपो बन्धकास्तावत् सम्यग्आयुपो द्ववि. मिथ्यादृष्टिविरहिता मिथ्यादृष्टेरारभ्य यावदप्रमत्तसंयत इति षट्सु स्थानेषु ध्यम् जन्तवः अजवन्योत्कृष्टाध्यवसायविशेषभाजः पृथुपायाः सायध्रुवायुर्विकल्पयुजः, तत्र . नारकदेवासङ्ख्येयवर्षायुपः प्राणिनः पण्मास्यामवशेषायां नियमादायुपो बन्धकाः / शेपास्त्वायुपस्त्रिभागेऽयशेपे पुरोवर्तिजन्मानुभवयोग्यमायुर्वघ्नन्ति, त्रिभागत्रिभागे वाऽवशेष इति / अथवा त्रिभागत्रिभागत्रिमागे वाऽवशेष इति / एतदुक्तं भवति-त्रिभागावशेपायुपो नवभागशेपायुपः सप्तविंशतिभागावशेषायुपो वा परभवायुवेनन्ति, ततः परं नबध्नन्तीत्यर्थः / तत्रावनिजलज्वलनमारुततरुद्वित्रिचतुरिन्द्रियाणां निरुपक्रमायुपांच पञ्चेन्द्रियाणां नियमित एव त्रिभाग वशेषे बन्धो भवत्यायुपः, सोपक्रमायुषां पुनः पञ्चेन्द्रियाणामनियमेन बन्धो यावत सप्तविंशतिभागावशेषकल्पनेति, ते च प्राणिनस्तदैव तदायुर्वनन्तोऽध्यवसायविशेषात् केचिदपवर्तनाह कुर्वन्ति केचिदनपवर्तनीयमिति, मन्दपरिणामप्रयोगोपचितमपवयं तीव्रपरिणामप्रयोगोपचितमनपवर्त्यम् , तत्रापवर्तना नाम प्राक्तनजन्मविरचितस्थिते. रल्पतापादनमध्यवसानादिविशेषात् , अनपवर्तनीयं पुनस्तावत्कालस्थित्येव न हासमायाति खकालावधेरारात् , तैलवर्तिक्षयतो निर्विघातप्रदीपोपशान्तिवत् धनसंहतत्वाद् वा पवनश्लेषवत्, तच्च किलाखिन्नवीर्यारब्धत्वात् असङ्ख्येयसमयोपार्जितमायुरनपवर्त्यम्, तथा गाढवन्धनत्यानिकाचितबन्धात्मनियमादनपवायुर्भवति / अथवैकनाडिकापरिगृहीतमायुः संहतिमचात् संहतपुरुषराशिवदभेद्यं वा एकनाडिकाविवरप्रक्षिप्तवीजनिप्पादितसस्यसंहतिबदू वा, विवराद् बहिः पतितबीजप्रमूतं हि सस्यमसंहतत्वात् प्रविरलतायां सत्यां सर्वस्यैव गवादेर्गम्यम्, एवं किलायमात्माऽऽयुर्वधनने कात्मलब्धिपरिणामस्वाभाव्याच्छरीरव्याप्यपि सन्नाडिकामार्गपरिणामो भवति, ततस्तामवस्थामासाद्य यानायुष्कपुद्गलान् बन्धाति ते नाडिकाप्रविष्टत्वात् संहतिमत्त्वे सति अभेद्या विषशस्त्राग्न्यादीनामिति,मन्दतीव्रपरिणामसन्निधानाञ्च स तत् तथा जन्मा. न्तर एव रचयति इहत्यजन्मव्याधिवत् / अल्पाद्धातुवैषम्यनिदानापथ्यसेवनाद् यो व्याधिः समुपजातः स कालान्तरेणोपेक्ष्यमाणःसमासादितोदग्रवृद्धिः समूलघातं निहन्ति शरीरकं, न पुनराश्वेव, नि: पुणभिषग्वरोपदिष्टतत्प्रत्यनीकक्रियाकलापानुष्ठानाच द्राग् विच्छेदमापाद्यते,तथैव यन्म 1' समरमपयान्तः' इति क-पाठः।