________________ 218 तत्त्वार्थाविगममूत्रम् [ अध्यायः 2 शे याच गम्यते जरायबण्डपोतजातिविधा भवन्ति-स्त्रियः पुमांसो नपुं. सकानीति // 1 // टी--प्रकृतस्य प्रतिषेधं दर्शयति, नपुंसकवेदः प्रकृतः, स एव प्रतिषिध्यते, दीव्यन्ति इति देवाः क्रीडातिगतिप्यतिशयवतीपु वाच्याः, चत्वारो निकायाः-सयाताःसमूहाः येषां भवनवनचरज्योतिपिकवैमानिकाख्यास्ते चतुर्निकायास्ते चतुर्विधा अपि न नपुंसकानि भवन्ति, नपुंसकवेदप्रतिषेधोत्तरकालं चाप्रतिपिद्धत्वात् सामर्थ्यात् स्त्रीपुरुषवेदद्वययोगिता गम्यतेऽतस्तां दर्शयति-स्त्रियः पुमांसश्च भवन्ति / स्त्रीवेदभाजः पुरुषवेदवेदिनश्चेत्यर्थः। भवनपतिव्यन्तरज्योतिपिकसौधर्मेशानेषु वेदद्वयमप्युपपाततः, तदुपरि पुरुषवेद एव, नेतरः। किं पुनः कारणं देवानां नपुंसकवेदो नास्तीत्यत आह तेषां हीत्यादि। यस्मात तेषां शुभगत्यादिनामगोत्रवेद्यायुष्कापेक्षमोहोदयादमिलपितग्रीतिसाधकं मायाजेवोपचितं करीपतृणपूलाग्निसदृशं स्त्रीवेदनीयमेकं पुंवेदनीयसेवाधिकं पूर्वपद्धनिकाचितनुदयमासं भवति नेतरन्नपुंसकवेदनीयमनद्धत्वात्। अत्र च स्त्रीवेदो नपुंसकवेदापेक्षया शुभ उच्यते, न पुनः शुभ एव / इदानीं सामोल्लव्धं दर्शयति-पारिशेष्याञ्च गम्यत इत्यादिना / परिशेपसिद्धया विज्ञायते जरावरचण्डपोतजास्त्रिविधा भवन्ति-स्त्रियः पुमांसो नपुंसकानि चेति // 51 // भा०-अत्राह-चतुंगतावपि संसारे किं व्यवस्थिता स्थितिआयुपाऽपय रायुषः उताकालमृत्युरप्यस्तीति ? / अत्रोच्यते-द्विविधान्यातनादि यूंषि-अपवर्तनीयानि अनपवर्तनीयानि च। अनपवर्तनीयानि पुनर्दिविधानि-सोपक्रमाणि निरुपक्रमाणि च / अपवर्तनीयानि तु नियतं सोपक्रमाणीति // तत्र-- . टी०-अत्राहेत्यादिः सम्बन्धग्रन्थः। अत्र प्रस्तावे संशयानः प्रश्नयति-नारकतिर्यङ्मनुष्यामरभेदभाजि संसारेऽतीतानन्तरजन्मपरिगृहीतस्यायुपः किं व्यवस्थिता तावत्येव स्थितिः-अनुभवकालः पूर्वबद्धा हि यावती, अथापरिपूरितायामपि तस्यां स्थितावपहाय प्राणान् परलोकप्रयाणाभिमुखः प्राणी प्रवर्तते / अकाले मृत्युः अकालमृत्युः प्रागुपातजीवनकालावधेरोक्काले खोपात्तमनुष्याद्यायुर्द्रव्याणामनुभवतः कृत्स्नपरिक्षयो मृत्युः स पुनः किमकालेऽपि पूर्वप्रतिबद्धायुःसंस्कारविच्छेदावधावपरिसमाप्तेऽपि भवति आहोस्विनियमत एव तावन्तं कालं प्राणिति प्राणीति,कुतः पुनरयं संशयः? सकललोकप्रवादात्,एवं लौकिकाः प्रमापन्ते-अयमकाले मृतो जन्तुळपादितो वा, अयं पुनः स्थविरः स्वकालपरिमाणमायुरनुभूय मृत्युगोचरमायात इत्यतः सन्देहः किमकालेऽपि मरणयोग इति ? तथैव सङ्ग्रामे समर्थतरुणबहुजनव्यापत्तिमनुप्रेक्ष्य युगपत् संशयप्रसवः, न तत्र प्रतिपत्तिराधातुं शक्याऽऽत्मनि अयुक्तिकत्वात,सर्व एते समायुषः सममेकसंख्यानिवन्धनमेभिभेवान्तरमासाद्यायुरुपचितमिति न शक्यमवगन्तुम् , अतः संशेते