________________ 217 सूत्रे 50-51] स्त्रोपज्ञभाष्य-टीकालङ्कृतम् सूत्रम्-नारकसम्मूछिनो नपुंसकानि // 2-50 // टी–केनचित् पुनरधीयते-नपुंसकवेदवन्तो जीवाः नारकसम्मछिनो नपुंसकाः, नपुंसकं येषां विद्यते, अर्शआदिपाठादतं विधाय // भा०-नारकाश्च सर्वे सम्मृच्छिनश्च नपुंसकान्येव भवन्ति, न स्त्रियो न पुमांसः / तेषां हि चारित्रमोहनीयनोकषायवेदनीयाश्रयेपु त्रिषु नपुंसकवेदव वेदेषु नपुंसकवेदनीयमेवैकमशुभगतिनामापेक्षं पूर्वबद्धनिका चितमुद्यप्राप्तं भवति, नेतरे इति // 50 // टी०- नारकाश्चेत्यादि भाष्यम् / नरकेषु भवा नारकाः सर्वे सप्तसु पृथिवीषु वर्तमानाःसम्मृच्छिनश्च सम्मूर्छनं सम्मूर्छः सम्मूर्छा वा सम्मूर्छनजन्मेत्यर्थः तद् येषां विद्यते ते सम्मूछिनः, सम्मूर्छनजन्मभाजश्च पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियाश्च केचित् तिर्यङ्मनुष्याः, सर्वे एते नपुंसकान्येव नपुंसकवेदभाज एवेत्यवधारयति। सामर्थ्यालब्धमवधारणाफलं दर्शयति-न स्त्रियान पुमांसान स्त्रीवेद भाजो न पुरुषवेदवेदिनः, किं पुनः कारणं नपुंसकवेद एव तेष्वित्यत आह-तेषां हीत्यादि / यस्मात् तेषां नारकाणां सम्मृच्छनजन्मनां च चारिप्रमोहनीयनोकपायवेदनीयाश्रयेषु त्रिषु वेदए,चारित्रमोहनीयं च तन्नोकपायवेदनीयं चेति चारित्रमोहनीयनोकपायवेदनीयम्- नवधा हास्यादि तद् आश्रयः स्थानं येषां ते तदाश्रयास्तेषु तदाश्रयेषु त्रिषु वेदेषु निर्धायते / नपुंसकवेदनीयमित्यादि / नपुंसकत्वानुभवो नपुंसकवेदनीयं तदेवैकमशुभगतिनामापेक्षम्, प्रदर्शनवाक्यमिदमशुभगतिनामापेक्षमिति. अशुभगत्यादिनामगोत्रवेद्यायुप्कोदयापेक्षो मोहोदयः परो येनाशुभं महानगरदाहोपमं मेथुनाभिलाषमनुभवन्ति नारकाकाङ्क्षारूपमिति, सम्मृद्धंनजन्मानोऽपि हि तिर्यनो मनुष्याचाशुभगत्यादिनामगोत्रवेद्यायुष्कोदयापेक्षमोहोदयाकाङ्क्षावन्तो नपुंसकत्वमनुभवन्ति, पूर्ववद्धनिकाचितमुदयप्राप्तं पूर्वस्मिन् जन्मन्यनन्तरे बद्धं नपुंसकत्वयोग्यास्रवैः परिगृहीत. मित्यर्थः / निकाचितं तदेव ग्रहणानन्तरमात्मसात्कृतं क्षीरोदकवदन्योन्यानुगतिलक्षणेन सम्बन्धेनात्मप्रदेशः सहाविभागितयाऽध्यवसायविशेषाद् व्यवस्थापितम् , उदयप्राप्तमिति समासादितपरिपाकावस्थम् , तदेवंविधं नपुंसकवेदनीयमेव नारकसम्मृच्छिमानांजन्तूनां दुःखबहुलत्वाद् भवति, नेतरे स्त्रीपुंवेदनीये कदाचिदिति // 50 // उक्तं नारकसम्मूछिनां लिङ्गम्, अथ देवानां किं लिङ्गमित्यत आह.--. सूत्रम्-न देवाः // 2-51 // भा०देवाश्चतुनिकाया अपि नपुंसकानि न भवन्ति, स्त्रियः देवानां वेदी पुमांसश्च भवन्ति / तेषां हि शुभगतिनामापक्ष स्त्रीपुंवेदनीये पूर्वबद्धनिकाचिते उदयप्राप्ते द्वे एव भवतो नेतरत् / पारि