________________ प्रस्तावना 216 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 ख्येयोत्सर्पिण्यवसर्पिणीसमयराशिसमसङ्ख्यानि भवन्ति / वैक्रियशरीरेभ्य औदारिकशरीराण्यसङ्ख्येयगुणानि, तिर्यकशरीरमनुष्याणामसङ्ख्येयत्वात्, असङ्ख्येयोत्सर्पिण्यवसार्पणीसमन यराशिसमसङ्ख्यानि // ननु च तिर्यञ्चोऽनन्ताः तत् कथमानन्त्ये च सति असङ्ख्येयानि शरीराणि स्युः / उच्यते-प्रत्येकशरीराणामसङ्ख्येयानि साधारणास्त्वनन्तास्तेषामनन्तानामेकं शरीरं भवतीत्यतोऽसङ्ख्यातानि, न पुनरनन्तानामपि प्रत्येकं शरीरमस्ति, तस्मात् सुष्टक्तमसङ्ख्येयानीति, औदारिकशरीरेभ्यस्तैजसकार्मणान्यनन्तगुणानि / तानि हि प्रत्येकं सर्वजीवानां संसारिणां भवन्त्यतोऽनन्तानि, न पुनरेकं तैजसं कार्मणं वा बहूनामिति // एवमेतेभ्यः कारणादिभ्यो नवभ्यो विशेषेभ्यः शरीराणां नानात्वं सिद्धं-प्रतिष्ठितमवसातव्यमिति // 49 // भा०-अत्राह-आसु चतसृषु संसारगतिषुको लिङ्गनियमः / अत्रोच्य ते-जीवस्यौदयिकेषु भावेषु व्याख्यायमानेषूक्तम्-'त्रिविधमेव लिङ्गसूत्रे सूत्र लिङ्ग-स्त्रीलिङ्गं पुल्लिङ्ग नपुंसकलिङ्गमिति' (अ० 2, सू०६ ) / " तथा चारित्रमोहे नोकषायवेदनीये विविध एव वेदो वक्ष्यते (अ० 8, सू०१०) स्त्रीवेदः पुंवेदो नपुंसकवेद इति / तस्मात् त्रिविधमेव लिङ्ग मिति // तत्र। टी०-अत्राह-आसु चतसृषु संसारगतिषु को लिङ्गनियम इति सम्बन्धग्रन्थः। अत्रावसरे शिष्यः प्रश्नयति-आसु नरकतियेङ्मनुष्यामराख्यासु चतुःसङ्ख्यानियतासु संसारगतिषु को लिङ्गनियम इति, कियन्ति लिङ्गान्यासु गतिषु सम्भवन्तीति पृच्छयते, लिङ्गसङ्ख्यामेव तावनिर्धारयितुमिच्छति, न पुनः किं लिङ्गं कस्यां गताविति पृच्छयते / अत्रोच्या ते-प्राक् तावल्लिङ्गेयत्ता निर्धार्यते ततश्च निवृत्तानि लिङ्गानि सङ्ख्यया गतिषु विभक्ष्यन्त इति / अतस्तमेव नियमं दर्शयति-त्रिविधमेव लिङ्गन न्यूनमधिकं वा, तच्च प्राक् प्रदर्शितं प्राय इत्येवमावेदयति जीवस्यौदयिकेष्वित्यादिना भाष्येण गतिकपायलिङ्गसूत्रे (अ० 2, सू०६) औदायिकमेकविंशतिभेदमाचक्षाणेन स्त्रीपुंनपुंसकलिङ्गानि त्रीण्येवाभिहितानि किमिति न स्मर्यन्ते ? तथा चारित्रमोह इत्यादि द्विविधो मोहोऽष्टमे वक्ष्यते ( अ० 8, सू०१०) दर्शनचारित्रभेदात्, तत्र चारित्रमोहे चारित्रमोहोऽपि द्विविधः-कषायचारित्रमोहो नोकषायचारित्रमोहश्च / तत्र नोकषायवेदनीये हास्यरत्यरतिभयशोकजुगुप्सास्त्रीपुंनपुंसकवेदभेदे विविध एव वेदो वक्ष्यते / यस्य कर्मण उदयात् पुरुषाभिलाषस्तत् कर्म स्त्रीवेदशब्दाभिधेयम्, यस्म पुनरुदयात् रूपमिलापस्तत् कर्म पुरुषवेदः, स्त्रीपुरुषद्वयाभिलाषो यदुदयात् तत् कमे नपुंसकवेद इति, तस्मात् विविधमेव लिङ्गमन्यस्यासम्भवात्, तदेव चैषां स्वस्थानं वेदानां तथैव च खसपतो विस्तरेण व्याख्यास्यन्ते, तत्र चेयत्तया व्यवच्छिन्नाः सन्त इह संसारगतिषु नियम्यन्ते को वेदः कस्यां गतावित्यत आह