________________ सूत्र 49 ] स्वोपज्ञमाष्य-टीकालङ्कृतम् 215 भा०–एभ्य एव चार्थविशेषेभ्यः शरीराणां नानात्वं सिद्धम्। किं चान्यत्। कारणतो विषयतः स्वामितः प्रयोजनतः प्रमाणतः प्रदेशसङ्शरीराणां नानावं रिष ख्यातोऽवगाहनतः स्थितितोऽल्पबहुत्वत इत्येतेभ्यश्च नवभ्यो हेतवः विशेषेभ्यः शरीराणां नानात्वं सिद्धमिति // 49 // टी--एभ्य एव चार्थविशेषेभ्यः शरीराणां नानात्वं सिद्धम् / उदाराद्यर्थविशेषेभ्यो विहितलक्षणेभ्यः विविक्तस्वरूपेभ्यः शरीराणां नानात्वं सिद्धं, घटपटादीनामिव लक्षणभेदात् सिद्धमिति / किं चान्यदित्यादि / न केवलमन्वर्थसंज्ञाख्यानद्वारेणैव विशेषः शरीराणाम् , अन्येभ्योऽपि हेतुभ्यः सम्भवत्येव कारणादिभ्यः / तत्र कारणतस्तावत् स्थूलपुद्गलोपचितमृत्यौदारिकम् / न तथा वैक्रियादीनि / 'परं परं सूक्ष्मम्' (अ०२, सू०३४) इति वचनात् // तथा विषयकृतो भेदः / विद्याधरौदारिकशरीराणि प्रत्यानन्दीश्वरादौदारिकस्य विषया जङ्घाचारणं प्रत्यारुचकपर्यन्तात् तिर्यक, उर्ध्वमा पाण्डुकवनात् / वैक्रियमस ख्येयद्वीपसमुद्रविषयम् / आहारकस्य यावन्महाविदेहक्षेत्राणि / तैजसकार्मणयोरासर्वलोकात् / तथा स्वामिकृतो विशेषः। औदारिकस्य मनुष्यतियेचः / वैक्रियस्य देवनारकास्तियेंमनुष्याश्च केचित् / आहारकस्य चतुर्दशपूर्वधरमनुष्यसंयुतः / तैजसकार्मणयोः सर्वसंसारिणः। तथा प्रयोजनकृतो भेदः / औदारिकस्य धमाधमेसुखदुःखकेवलज्ञानावाप्त्यादि प्रयोजनम् / वैक्रियस्य स्थूलसूक्ष्मकत्वव्योमचंरक्षितिगतिविषयाधनेकलक्षणा विभूतिः / आहारकस्य तु सूक्ष्मव्यवहितदुरवगाहार्थव्यवस्थितिः। तैजसस्याहारपाकः शापानुग्रहदानसामर्थ्य च / कार्मणस्य मवान्तरगतिपरिणामः / तथा प्रमाणकृतो भेदः / सातिरेकं योजनसहस्रमौदारिकम् / योजनलक्षप्रमाणं वैक्रियम् / रत्निप्रमाणमाहारकम् / लोकायामप्रमाणे तैजसकार्मणे / तथा प्रदेशसङ्ख्यातो भेदः / 'प्रदेशतोऽसङ्ख्येयगुणं प्राक् तैजसात् अनन्तगुणे परे' (अ० 2, मू० 39-40 ) इत्युक्तः प्रदेशभेदः प्राक् / तथाऽवगाहनाकृतो विशेषः / सातिरेकयोजनसहस्रप्रमाणमौदारिकमसङ्ख्येयगुणप्रदेशेषु यावत्स्ववगाढं भवति तेभ्यो बहुतरकास ख्येयप्रदेशावगाढं योजनलक्षप्रमाणं वैक्रियं भवति, आहारकमाभ्यामल्पप्रदेशावगाढं भवति हस्तमात्रत्वात, तेजसकार्मणे लोकान्तायताकाशश्रेण्यावगाढे भवतः / तथा स्थितिकृतो भेदः। औदारिकं जघन्येनान्तर्मुहूर्तस्थिति, उत्कर्षेण त्रिपल्योपमस्थिति / वैक्रियं जघन्येनान्तर्मुहूर्तस्थिति, उत्कर्षेण त्रयस्त्रिंशत्सागरोपमस्थिति / आहारकमन्तर्मुहूर्तस्थित्येव / तैजसकार्मणयोः सम्तानानुरोधादनादित्वमपर्यवसानता चाभव्यसम्बन्धितया, अनादित्वं सपर्यवसानता च भव्यसमन्धित्वेनेति / तथाऽल्पबहुत्वकृतो विशेषः / सर्वस्तोकमाहारकं यदि सम्भवति कदा. चिम सम्भवत्यपि / किं कारणम् ? येन तस्यान्तरमुक्तं जघन्येनैकसमयः, उत्कृष्टतः षण्मासा, तपदि भवति ततो जघन्येनैकमादि कृत्वा यावदुत्कर्षेण नवसहस्राणि युगपद् भवन्त्याहारकशरीरा म् / आहारकाद् वैक्रियशरीराण्यसङ्ख्येयगुणानि नारकदेवानामसङ्ख्येयत्वात् असह 1. पर्वतात् ' इति क-पार्श्वस्थपाठः / 2 'तस्यान्तर्मुहूर्त' इति क-पाठः /