________________ 214 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 बोंदीणं अंतरा किं एगजीवफुडा अणेगजीवफुडा? गोयमा ! एकजीवफुडा नो अणेगजीवा. डा / पुरिसे णं भंते! अंतरे हत्थेण वा पाएण वा असिणा वा पभू विच्छिदित्तए / नो इणमहे समठे, नो खलु तत्थ सत्थं कमति " (मु०६३५)॥ एतानि च सूत्राणि वैक्रियाद्यर्थेपूपयुज्य नियोज्यानि, न स्वार्थ एव प्रत्ययविधिः / अनियमं दर्शयति-विक्रियायां भवमित्यादिना भाष्येण, एतच्च सुज्ञानमेवातः कदाचिद् वैक्रियं वैक्रयिकं चेति // आहारकम्य भा०-आहारकमाहियत इत्याहार्यम् / आहारकमन्तर्मुहूर्तशब्दार्थविस्तारः स्थिति / नैवं शेषाणि / टी-आहारमाहियत इत्यादि भाष्यम् / गृह्यते प्रतिविशिष्टप्रयोजनप्रसाधनाय कार्यपरिसमाप्तेश्च पुनर्मुच्यते याचितोपकरणवत् संशयव्यवच्छेदार्थावग्रहणार्धिदर्शनादि च कार्यम्, आह्रियते आहार्यमित्यनेन शब्दद्वयेन विशिष्टकारकसाध्यमाहारकशब्दं दर्शयति कुल्ल्युटो बहुलवचनात् , तच्चाहारकमन्तर्मुहूर्तस्थिति, एतावता च कालेनाभिलषितप्रयोजनपरिसमाप्तिस्तस्याहर्तुरुपजायते, परिनिष्ठितप्रयोजनश्च पुनर्विमुञ्चति नोत्तरकालमपि तां लब्धिमुपजीवति अतोऽन्तर्मुहूर्तस्थितिः, आत्मलाभो यस्य तदन्तर्मुहूर्तस्थिति। नैवं शेषाणीति, व्यतिरेकमन्यतः प्रतिपादयति-शेषाण्यौदारिकादीनि तत्प्रसाध्यप्रयोजननिवर्तनाय नालं नापि नियमत एव.तावत्या स्थित्या योगः प्रमाणेन वेति // . भा०-तेजसो विकारस्तैजसं तेजोमयं तेजःस्वतत्त्वं शापा * नुग्रहप्रयोजनम् / नैवं शेषाणि // . ____टी-तेजसो विकारस्तैजसमित्यादि / उष्णभावलक्षणं तेजः संसिद्धं सर्वप्राणिषु पाचकमन्धसः / तस्यैवंविधस्य तेजसो विकारस्तैजसमवस्थान्तरापत्तिरिति / एतदेव पर्यायान्तरेणाख्याति-तेजोमयं स एव विकारार्थस्तेजःस्वतत्त्वम्, तेजसः स्वतत्त्वं-स्वरूपं-आत्मा-स्वभावस्तत् तेजःस्वतत्त्वम् शापानुग्रहप्रयोजनमिति / लब्धिनिवृत्तिमपेक्ष्योच्यते शापानुग्रहौ प्रयोजनं यस्य निग्राह्यानुग्राह्यपक्षयोस्तत् तु शापानुग्रहप्रयोजनमिति / नैव शेषाणीति / औदारिकादिभ्यो व्यतिरिच्यते एतत् स्वगुणैरिति प्रथयति भा०-कर्मणो विकारः कर्मात्मकं कर्ममयमिति कार्मणम् / कार्मणविचारः टी०-कर्मणो विकार इत्यादि। ज्ञानावरणादिकर्मणो विकृतिः कार्मणमेकलोलीभाव इति कर्माणि तान्येवात्मा यस्य स्वरूपं कर्ममयमिति विकारार्थ एव पर्यायतः / नै शेषाणि इत्यौदारिकादिलक्षणव्युदासः / एवमन्वर्थसंज्ञकानि प्रतिपाद्य औदारिकादीन्येकप्रय लप्रसाध्यं लक्षणभेदाच्छरीरनानात्वमप्यतिदिशतिस्पृष्टानि, पुरुषो भदन्त ! अन्तरा हस्तेन वा पादेन वा असिना वा प्रभुविच्छेत्तुम् ! नैषोऽर्थः समर्थः नैव तत्र शस्त्रं काम्यति। रः