________________ सूत्रं 52 स्वोपनमाष्य-टीकालङ्कृतम् 221 कदाचिदप्युपक्रान्तेरदर्शनात् / अपरे वर्णयन्ति–तीर्थकरौपपातिकानां नोपक्रमतो मृत्युः, शेषाणां चरमदेहोत्तमपुरुषासङ्ख्येयवर्षायुषामुभयथा, एवंविधाभ्युपगमे भाष्यमुपरिष्टादगमितं स्यात, औपपातिकावासङ्ख्येयवर्षायुषश्च निरुपक्रमाः, चरमदेहाः सोपक्रमा निरुपक्रमाचेति भाष्यमिदमत्यन्तमसङ्गतं स्यात् / कर्मप्रकृतिग्रन्थानुसारिणस्तु वर्णयन्ति "अद्धा जोगुकस्सा, बंधित्ता भोगभूमिए सुलहं। . सव्यप्पजीवितं वजइत्तु उवट्टि(य)त्ता दोपहम् // " . उत्कृष्टप्रदेशोदयविचारे सङ्ग्रहिण्यामियं गाथा, अर्थस्त्वस्याः-उत्कृयुगालना न्यायुषा ष्टबन्धाद्धायामायुषो योगेनोत्कृष्टेन तियेगायुर्मनुष्यायुर्वा बवा मृतः सन् o, भोगभूमिजेषु तिर्यक्षु मनुष्येषु च त्रिपल्योपमस्थितिपूत्पन्नः पश्चादाशु सर्वाल्पजीवितमन्तर्मुहूर्त विहाय शेषमायुत्रिपल्योपमस्थितिकमपवर्तयन्त्यन्तर्मुहूर्तानमिति / यदा च तदपवर्तितं भवति तदा किलोत्कृष्टः प्रदेशोदयो भवतीति, न च शक्यमनेनाभिप्रायेण भाष्यं गमयितुमतिविरोधात , तस्मादवस्थितमिदमनपवर्तनीयानि द्विविधानि सोपक्रमाणि निरुपक्रमाणि चेति, अपवर्तनीयानि तु नियतं सोपक्रमाणि। तुशब्दोऽवधारकः / सोपक्रमाण्येवापवर्तनीयान्यायपि भवन्ति सर्वदा, यतो न ह्यपवर्तनाध्यवसानादिकं निमित्तमन्तरेणात्मलाभं प्रतिपद्यते / तत्र केऽनपवायुपः के वाऽपवायुष इत्यन्यतराख्यानेऽन्यतरपरिज्ञानं भवति लघुत्वाच्चानपवायुपः सूत्रेण दर्शयति-- सूत्रम्-औपपातिकचरमदेहोत्तमपुरुषासङ्ख्येयवर्षायुषो. नपवायुषः॥ 2-52 // टी-अनपवायुषो निर्धार्यन्तेऽमुना योगेन, तच्चावधारणं तत्र शब्देनाख्याति भाष्यकारः। .. भा०-औपपातिकाश्चरमदेहा उत्तमपुरुषाः असङ्ख्येयवर्षाarria" युष इत्यतऽनपवायुषो भवन्ति / तत्र औपपातिका नारकअनपवायुषः देवाश्चेत्युक्तम् (अ०२, सू० 35) / चरमदेहा मनुष्या एव भवन्ति, नान्ये / चरमदेहा अन्त्यदेहा इत्यर्थः। ये तेनैव शरीरेण सिद्ध्यन्ति / उत्तमपुरुषास्तीर्थकरचक्रवर्त्यर्धचक्रवर्तिनः। असङ्ख्ययवर्षायुषो मनुष्यास्तिर्यग्योनिजाश्च भवन्ति / टी०-औपपातिका इत्यादि भाष्यम् / उपपातजन्मानो नारकदेवाः, चरमः-अन्त्यो देहो येषां ते चरमदेहाः-पुनर्देहग्रहणं ये न करिष्यन्ति, उत्तमपुरुषास्तीर्थकरचक्रवर्तिवलदेववासुदेवाः / केचिदभिदधते -- नास्ति सूत्रकारस्योत्तमपुरुषग्रहणमिति तत् कथं तीर्थकरादि