________________ 222 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 2 सह इति चेत्, एवं च मन्यन्ते चरमदेहग्रहाद् ग्रहीष्यन्ते, कथम्? ये किल चरमदेहास्ते नियमत एवोत्तमा भवन्ति, उत्तमास्तु चरमदेहत्वेन भाज्या वासुदेवादय इति, तस्मादनार्षमुत्तमपुरुषग्रहणमिति, उभयथा च भाष्यमुपलक्ष्यते अविगानात्, आदावुत्तमपुरुषास्तीर्थकरा. दय इति विवृतमुत्तरकालं पुनर्नोपात्तमुत्तमपुरुषग्रहणं निरुपक्रमसोपक्रमनिरूपणायाम् , अतो भाष्यादेव सन्देहः, किमस्ति नास्तीति संशयात्तमेवेदमसाकम् / असङ्ख्येयवर्षाणि गणितविष. यातीतान्या!पि येषां तेऽसङ्ख्येयवर्षायुषोऽकर्मभूम्यन्तरद्वीपका मनुष्याः, भरतैरावतविदेहेषु च तत्तुल्यकालाः पञ्चेन्द्रियतिर्यग्योनयश्च तदन्यक्षेत्रद्वीपसमुद्रेषु, एवमेतेऽनपवायुषो द्रष्टव्याः। एतदेव स्पष्टयति भाष्यकार:-औपपातिका नारका देवाश्चेत्युक्तमिति सारयति प्रागभिहितं (अ०२,सू०३५), नाधुना व्याख्येयमिति / चरमशरीरास्तु मनुष्या एव भवन्ति, नान्ये। नारकतिर्यग्देवव्युदासः सिद्धययोग्यत्वात् / चरमदेहान् प्रसिद्धतरपर्यायशब्देन कथयति-चरमदेहा अन्त्यदेहा इत्यर्थः / येतेनैव शरीरेण सकलकर्मजालमपहाय सिद्धिमशेषकर्मापगमलक्षणामाप्नुवन्ति इति / उत्तमपुरुषास्तीर्थकरचक्रवर्त्यर्धचक्रवर्तिनः तीर्थकरनामकर्मो. दयवर्तिनस्तीर्थकराः, चक्रवर्तिनोऽपि नवनिधिपतयश्चतुर्दशानां रत्नानां नेतारः स्वपौरुषोपात्तमहाभोगसुजः सकलभरताधिपा भवन्ति, अर्धचक्रवर्तिनस्तु बेलदेववासुदेवाः एवमादयश्चान्येऽपि किल प्रदर्शनाद गणधरादयो गृह्यन्ते / असङ्ख्येयवर्षायुषो मनुष्यास्तियेग्योनिजा भवन्तीत्यादि भाष्यम् / एतेष्वेवासङ्ख्येयवर्षजीवित्वं लभ्यते, न नारकदेवेषु सम्भवन्त्यपि, तत्रासङ्ख्येयानि वर्षाण्यौपपातिकग्रहणान्निवार्यन्त इति, मनुष्याणां तिरश्वां च मध्ये सम्भवन्त्यसङ्ख्येयवायुपस्तेऽनपवत्यायुषः / ते च भा०-सदेवकुरुत्तरकुरुषु सान्तरद्वीपकास्वकर्मभूमिषु कर्मभूमिषु च सुषमसुषमायां सुषमायां सुषमषमायामित्यसङ्ख्येयवर्षायुषो मनुष्या भवन्ति / अत्रैव बाह्येषु द्वीपेषु समुद्रेयु तिर्ययोनिजा असङ्ख्येयवर्षायुषो भवन्ति। औपपातिकाश्वासयवर्षायुषश्च निरुपक्रमाः / चरमदेहाः सोपक्रमा निरुपक्रमाश्चेति / एभ्य औपपातिकवरमदेहासङ्ख्येयवर्षायुयः शेषा मनुष्यास्तियंग्योनिजाः सोपक्रमा निरुपक्रमाश्चापवायुषोऽनपवायुषश्च भवन्ति / तत्र येऽपव. अपवर्तनीया. युषि हेतुः त्यायुपस्ता विषशस्त्र मा ल्युपस्तेषां विषशस्त्रकण्टकाम्युदकाह्यशिताजीर्णाशनिप्रपा तोद्वन्धनश्वापदवननिर्यातादिभिः क्षुत्पिपासाशीतोष्णादिभिश्व द्वन्द्वोपक्रमैरायुरपवर्त्यते। अपवर्तनं शीघ्रमन्तर्मुहूर्तात् कर्मफलोपभोगः, उपक्रमोऽपवर्तननिमित्तम् // 1 'बलदेवप्रतिवासुदेवाः' इति क-ख-पाठः / 2 अयं तु ध-पाठः, 'पातिकं चरम० ' इति तु ग-पाठः /