________________ सूत्र 52 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 223 टी-मन्दनीलयोरुत्तरदक्षिणा गन्धमादनमाल्यवतोमध्य उत्तराः कुरवः एकादशयोजनसहस्रद्विचत्वारिंशाष्टशतसद्विकल विस्तृताः / मन्दरनिपधयोदक्षिणोत्तराः सौमनसाविद्युत्प्रभयोमध्ये देवकुरवस्तावत्प्रमाणाः, सह देवकुलभिरुत्तरकुरवः सदेवरू तस्कुरबस्तत्र देवा. रूत्तरकुरुयु जम्बुद्वीपधातकीखण्डपुष्करद्वीपाधिवृत्तिषु, तथा हिमवतःप्राक पश्चाद् विदिक्षु व्यादिपु नवान्तेषु योजनशतेदारवगाह्य तावद्विस्तरायामाः सहान्तरद्वीपाश्चतुचतुःप्रागुताक्रमादेकोरुकादयस्तानन्तरद्वीपान कायन्तीत्यन्तरद्वीपका मनुष्याः सहान्तरद्वीपकैः सान्तरडीपकाः, कर्मणो भूमयः यत्र जाताः प्राणिनः सकलं कर्म क्षपयित्वा सिद्धयन्ति तीर्थकरायुपदेशात् ताः कर्मभूमयो भरतैरावतविदेहक्षेत्राणि पञ्चदश प्रत्येकं पञ्चभेदत्वात् / न कर्मभूमयोऽकर्मभूमयः तासु अकर्मभूमिपु-हैमवतहरिवरिन्यकहैरण्यवताख्यासु जन्बूद्वीपधातकीखण्डपुष्करवरद्वीपार्धवर्तिनीषु तथोक्तलक्षणासु कर्मभूमिषु च ये मनुष्याः प्रथम द्वितीयतृतीयसमासु यदा भवन्त्यसङ्ख्येयवर्घायुषस्तदा तेऽनपवत्यायुषो मन्तव्याः दृढबद्धत्वादग्न्यादिभिः कोहदुकापरानानुक्रमवद् / अत्रैव वासोधिवत्यादि / सदेवकुरुत्तरकुरुवित्यादि समस्तमुपलक्षयत्यत्रैवेति / तथा बाह्येषु मनुप्यक्षेत्रा बहिये वर्तन्ते द्वीपाः समुद्राथ तेषु तिर्ययोनिजा असक्ष्यवर्धायुषो भवन्ति,मनुप्यक्षेत्रे च बहिश्चेत्यसङ्ख्येयवर्षायुपां तिरश्चां सम्भवः / तत्र प्रागुक्तमनपवर्तनीयानि द्विविधानि भवन्तीति तद् दर्शयत्यधुना भाष्येण-औषपातिकाश्चासङ्ख्येयवर्धायुषश्च निरुपक्रमाः। न ह्येपांग्राणापानाहारनिरोधाभ्यवसाननिमित्तवेदनापरावातस्पर्शाख्याः सप्त वेदनाविशेषाः सन्त्यायुषो भेदकाः उपक्रमा इति, अतो निरुपक्रमा एव / चरमदेहाः पुनः सोपक्रमा निरूपक्रमाश्चेति / अत्रोत्तमपुरुषा नोक्ताः, एतानि प्राणापाननिरोधादीनि किल चरमदेहेषु सम्भवन्त्येव नोच्छिन्दन्तीति सोपक्रमा मण्यन्ते, केचित् तत्र निरुपक्रमा येष्वेतानि न सम्भवन्तीत्यपीति / इदानीं सामर्थ्यलब्धमर्थं दर्शयति--एभ्य इत्यादि / उक्तलक्षणेभ्यः औपपातिकादिभ्यो व्यतिरिच्यमानाः शेषाः। ते च नियमतो मनुष्याः तिर्यञ्चो वा आयुरुभयथा भजन्ते, प्राणापाननिरोधादिकारणकलापोपक्रम्यत्वात् सोपक्रमायुपः केचित, केचित् तु न तैरुपक्रम्यन्त इति निरुपक्रमायुषः / यदुक्तं-'प्रागपवर्तनीयानि तु नियतं सोपक्रमाणी'ति तद्विशेषदिदर्शयिषया आह-अपवायुपोऽनपवायुषश्च शेपाः / तत्र येऽपवायुपस्ते नियतं सोपक्रमाः। ये पुनरनपवायुपस्ते शेषाचेति-निरुपक्रमायुप एव / एतदेव भाष्यकारः स्पष्टयन विभजते-तत्र येऽपवत्योंयुषस्तेषामित्यादिना / तेषु मनुष्येषु तिर्यक्षु च येपामपवर्तनीयमायुस्तेषामपवर्त्यते / अमी विपादयो हेतवः सुज्ञानत्वाच्च न विवृताः। आदिशब्दाच्च पूर्वोक्ताः प्राणापाननिरोधादयः कांश्चिदपहाय ग्राह्याः / एभिर्हेतुभिरायुरपवर्तते स्वल्पीभवतीतियावत्, द्वन्द्व उपधात आयुषस्तस्योपक्रमः, तत्प्रत्यासन्नीकरणैरित्यर्थः / कि 1 'कंकटुकापरान्तानुपक्रमवत्' इति ग-टी-पाठः /