________________ श्रीउमास्वातिमहर्षिभिः प्रकरणपश्चशती प्रणीता इत्युल्लेखः श्रीजिनप्रभसूरिकततीर्थकल्पे प्रशमरतेः श्रीहरिभद्रकृतटीकायां च / अनेन एतेषां पञ्चशतप्रकरणप्रणेतरूपेण प्रसिद्धिः श्वेताम्बरसम्प्रदाये / स्थानाङ्गवृत्ति-पञ्चाशकवृत्ति-श्रीउत्तराध्ययनवृत्त्यन्तर्गतनिम्नलिखितपाठा वाचकवर्यकृतोपलब्धग्रन्थेषु न दृष्टिपथेऽवतरन्ति, अतोऽपि संभवति तेषामन्यग्रन्थप्रणेतृत्वम् / "उक्तं च वाचकमुख्यैरुमास्वातिपादैःकृपणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते / यद् दीयते कृपाथोदनुकम्पा तद् भवेद् दानम् // 1 // अभ्युदये व्यसने वा यत् किश्चिद् दीयते सहायार्थम् / / तत्समहतोऽमिमतं मुनिमिर्दानं न मोक्षाय // 2 // राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषु च / / यद् दीयतेऽभयार्थ तदभयदानं बुधैर्जेयम् // 3 // . अभ्यर्थितः परेण तु यद् दानं जनसमूहमध्यगतः / परचित्तरक्षणार्थ लायास्तद् भवेद् दानम् // 4 // नटनर्तमुष्टिकेभ्यो दानं सम्बन्धिबन्धुमित्रेभ्यः। यद् दीयते यशोऽर्थे गर्वेण तु तद् भवेद् दानम् // 5 // हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः।। यद् दीयते हि तेषां तज्जानीयादधर्माय // 6 // . समतृणमणिमुक्तेभ्यो यद् दानं दीयते सुपात्रेभ्यः / अक्षयमतुलमनन्तं तद् दानं भवति धर्माय // 7 // शतशः कृतोपकारो दत्तं च सहस्रशो ममानेन / अहमपि ददामि किञ्चित् प्रत्युपकाराय तद् दानम् // 8 // " -स्थानाङ्गस्य श्रीअभयदेवसूरिकृतवृत्तौ " उमास्वातिवाचकेनाप्यस्य समर्थितत्वात् / तथाहि तेनोक्तम् - सम्यग्दर्शनसम्पन्नः षड्विधावश्यकनिरतश्च श्रावको भवति इति // " -पञ्चाशकस्य श्रीअभयदेवरिकतवृचौ " उक्तं वाचकमुख्यैः परिभवसि किमिति लोकं, जरसा परिजर्जरितशरीरम् / अचिरात् त्वमपि भविष्यसि, यौवनगर्व किमुद्वहसि // 1 // " ... - श्रीउत्तराध्ययनसूत्र(अ० 10, पत्रा० 244 )स्य श्रीभावविजयकृतवृत्तौ