________________ विहरमाणैश्च तैः 'कुसुमपुरे' पाटलीपुत्रनामधेयेऽयं ग्रन्थः सन्हन्धः / अत्र च भाष्यान्ते दचा निम्नलिखिता प्रशस्तिः प्रमाणम् / " वाचकमुख्यस्य शिवाश्रियः प्रकाशयशसः प्रशिष्येण ! शिष्येण घोषनन्दिक्षमणस्यैकादशाङ्गविदः॥१॥-आयो वाचनया च महावाचकक्षमणमुण्डपादशिष्यस्यः। शिष्येण वाचकाचार्यमूलनाम्नः प्रथितकीर्तेः॥२॥ न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनाम्नि / कोभीषणिना स्वातितनयेन वात्सीसुतेनाय॑म् // 3 // अर्हद्वचनं सम्यग् गुरुक्रमेणागतं समुपधार्य / दुःखातं च दुरागमविहतमतिं लोकमवलोक्य // 4 // इदमुच्चैनोंगरवाचकेन सत्त्वानुकम्पया दृब्धम् / तत्त्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् // 5 // " वाचकवर्यश्रीउमास्वातीनां कृतयः१ श्रीतत्त्वार्थाधिगमसूत्रम् / 2 श्रीतत्त्वाथोधिगमभाष्यम्। 3 प्रेशमरतिः। 4 जम्बूद्वीपसमासप्रकरणम् / 5 पूजाप्रकरणम् ( एकोनविंशतिश्लोकात्मकम् ) / 6 श्रीवकप्रज्ञप्तिः। 7 क्षेत्रविचारः। 1 धर्मरत्नप्रकरणप्रणेतृश्रीशान्तिसूरिभिरपि तत्प्रकरण ( गा० 103 ) स्वोपनवृत्तावुक्तम्" पूर्वगतवेदिना चोमास्वातिवाचकेन प्रणीतप्रवचनोन्नतिहेतुप्रशमरतितत्त्वार्थायनेकमहाशास्त्रेण / " 2 प्रसिद्धयनुसारेण / 3 धर्मबिन्दोः श्रीमुनिचन्द्रसूरिकृतटीकायां निम्नलिखितोल्लेखात् " उमास्वातिविरचितश्रावकप्रज्ञप्तौ तु अतिथिशब्देन साध्वादयश्चत्वारो गृहीताः, ततस्तेषां संविभागः कार्य इत्युक्तम् / तथा च तत्पाठः-अतिथिसंविभागो नाम अतिथयः साधवः साध्व्यः श्रावकाः श्राविकाश्चैतेषु गृहमपागतेष भक्त्याऽभ्युत्थानासनदानपादप्रमाजेननमस्कारादिमिरर्चयित्वा यथाविभवशक्ति अन्न-पान-वस्त्रौषधालयादिप्रदानेन संवि. भागः कार्य इति / " 4 श्रीहरिभद्रसूरिकृतटीकासमलकृतोऽयं ग्रन्थो वाचकवर्यस्य कृतिरिति प्रतिभाति / 5 नवमाकान्थोत्थानिकायां यशोभद्रचरित्रं वाचकवर्याणां कृतिरित्युल्लेखः, परन्तु प्रमाणानुपलब्धेः स विचारणीयः।