________________ सूत्र) स्वोपज्ञभाष्य टीकालङ्कृतम् 327 अपेतक्रियाणि निष्क्रियाणि, करणं क्रिया-द्रव्यस्य भावस्तेनाकारेण, स चैषां न समस्ति, यस्माद् धर्माधर्माकाशान्यनासादितातिशयान्येव सर्वदा पूर्वापरावस्थाभेदमनाजिहानानि किल लक्ष्यन्ते, तदेतदपव्याख्यानमवधीरितसमयसद्भावैरकारि, यतः सर्वमेव सदुत्पादव्ययध्रौव्यधर्मात्मव्यवस्था नातिकामति, तदेतेऽपि धर्मादयो यदि सत्तां नातिलङ्घयन्ति भवितव्यं तदा ताहि क्रिययैषामुत्पादविगमलक्षणया जीवानामिव / अथ सत्तातिक्रमेणाभ्युपेयन्ते तदानीं द्रव्यतैवावहीयते गगनेन्दीवरादिवत्, भगवानपि व्याजहार प्रश्नत्रयमात्रेण द्वादशाङ्ग प्रवचनार्थ सकलवस्तुसङ्ग्राहित्वात् प्रथमतः किल गणधरेभ्यः-"उप्पण्णेति वा विगमेति वा धुवेति चा" / तदेतदशेषं विशीर्यते / तस्माद् द्रव्यत्वान्मुक्तात्मवदुत्पादव्ययस्थितिमत्त्वमनुमिमते हैतुकाः / तथा चावधृतसिद्धान्तहृदयेन विशेषावश्यककारेण नमस्कारनियुक्तौ शब्दानित्यत्वप्रतिपादनेच्छयाऽवाचि "अवगाहणादओ नणु गुणत्तओ चेव पत्तधम्मन्च / उप्पादादिसभावा तह जीवगुणावि को दोसो॥ अवगाढारं च विणा कत्तोऽवगाहोत्ति तेण संजोगो। उत्पत्ती सोऽवस्सं गचुवकारादओ चे // ण य पञ्जयतो भिष्णं दवमिहेगं ततो जतो तेण / सण्णासंमि कहं वा नभादओ सव्वहा णिचा ? // " (गा० 2821-2823) अयमासामर्थोऽवधार्यः-गुणत्वात् पत्रनीलतावनभोऽवगाहोऽप्यनित्यः, नभसोऽवगाहः स्खलक्षणमुपकारः, स चावगाढारमन्तरेण जीवादिकं नाभिव्यज्यत इति अवगाढजीवादिसंयोगमात्रमवगाह इति, संयोगधोत्पादी संयुज्यमानवस्तुजन्यत्वाद द्वयङ्गुलसंयोगवत,यथा चावगाह आकाशस्यैवं गतिस्थित्युपकारावपि धर्माधर्मयोर्गतिमदादिद्रव्यसंयोगमात्रत्वादुत्पादादिस्वभावा इति / कथं तर्हि निष्क्रियत्वमेषामत आह-पुद्गलजीवास्तु क्रियावन्तः, क्रियेति गतिकर्माह सूत्रकारः, पुद्गलजीववर्तिनी या विशेषक्रिया देशान्तरप्राप्तिलक्षणा तस्याः प्रतिषधोऽयम्, नोत्पादादिसामान्यक्रियायाः, पुद्गलास्त्वितो देशान्तरमास्कन्दन्तः समुपलभ्यन्ते जीवाश्चेत्यतस्ते क्रियावन्तः, असुमेवार्थ धात्वन्तरेण प्रसिद्धदेशान्तरप्राप्त्यर्थेन प्रकाशयति-गतिः क्रियाशब्दे१ उत्पन्न इति वा विगत इति वा ध्रव इति वा। 2 अवगाहनादयो ननु गुणत्वतश्चैव पत्रधर्म इव / उत्पादादिस्वभाषास्तथा जीवगुणा अपि को दोषः // . . अवगाढार च विना कुतोऽवगाह इति तेन संयोगः। उत्पादी सोऽवश्यं गत्युपकारादयश्चैवम् // 2 // मच पर्ययतो मित्रं द्रव्यमिहकान्ततो यतस्तेन / सभा व्यं वा नमादयः सर्वथा वित्याः // 3 //