________________ 326 तत्त्वाधिगमसूत्रम् [ अभ्यार्पः 5 पुनरेषां विशेषाभिधित्सया सूत्रमाह सूत्रम्-आकाशादेकद्रव्याणि // 5-5 // टी०-अथवा पुद्गलद्रव्यं परमाणुभेदेनानेकधा जीवद्रव्यं च नारकादिविशेषेण, तत् कि मेवं धर्मादिद्रव्याण्यपीत्यारेकानिराकरणायेदमुच्यते मा०-आ आकाशाद् धर्मादीन्येकद्रव्याण्येव भवन्ति / धर्मादीनां सक्क्या पुद्गलजीवास्त्वनेकद्रव्याणीति // 5 // टी०-आ आकाशादित्यादि भाष्यम् / अभिविधिचित्वादातो द्वित्वं ततध संहितया सूत्रपाठस्तं विवृणोति. भाष्येण-आ आकाशात अध्यायादिसूत्रोपातक्रममुद्दिश्याकाशामिव्याप्तिप्रचिकाशयिषया आ आकाशादित्युवाच / धर्मादीनीति प्रथितप्रतिविशिष्टानुपूर्वीप्रदर्शनं धर्माधर्माकाशानि एकद्रव्याण्येवेति, नैषां समानजातीयानि द्रव्यान्तराणि सन्तीति, अविलक्षणोपकारात्, धर्माधर्माकाशानां हि गतिस्थित्यवगाहोत्पत्या प्रभावित उपकारः, स्थित्यादित्रययुक्तं हि वस्त्वर्थक्रियासमर्थमभ्युपेयतेऽनेकान्तवादिभिः, धर्मादिव्यागां च गत्यादय उपकाराः स्वस्थाने युक्त्या प्रतिपादयिष्यन्ते, एकशब्दोऽसहायार्थमभिवत्ते, यथा परमाणुः पामाण्वन्तरेण सद्वितीयः, आत्मा आत्मान्तरेण ज्ञानसुखदुःख जीवनादिभेदभाजा, न धर्मद्रव्यं धर्मद्रव्यान्तरेण ससहायम्, अधर्मव्योमनी चैवमाविष्कार्ये, द्रव्यं गुणपर्यायवद (सू० 37) वक्ष्यते, तदनेन स्वंगतधर्मपरिणामप्राप्तिरापाद्यते मुक्त स्येव, अन्यथा गुणपर्यायशून्यं द्रव्यमेव न स्याद् व्योमोत्पलादिवत्, एवशब्देन नियम्यते एकद्रव्याण्येवैतानि, तुल्यजातीयद्रव्याभावात्, नियमेन चेष्टार्थसिद्धि प्रदर्शयति-पुद्गलजीवास्त्वनेकद्रव्याणीति, सम्भाव्यानेकतया पुद्गलात्मानो विशेष्यन्ते तुशब्देन, इतिकरण यस्मादर्थे, यस्मात् तुल्यजातीयभ्यस्त्वमेषां तस्मादनेकद्रव्याणि परमाणुप्रभृतीन्यनन्ताणुकस्कन्धावसानानि क्षितिजलज्जलनानिलतरुद्वित्रिचतुष्पश्चेन्द्रियात्मानश्चेति भावनीयम् // 5 // अयमपरो विशेषस्तेषामेवाभिधीयते सूत्रम्-निष्क्रियाणि च // 5-6 // री.-अथवा एवं तावदरूपित्वैकद्रव्यत्वे विभज्याख्याते इदमपि विभज्याख्यायत इत्याहचार्थमाचष्टे भाष्यकारः भा०-आ आकाशादेव धर्मादीनि निष्क्रियाणि भवन्ति / धर्मादिषु क्रियावि चार पुद्गलजीवास्तु क्रियावन्तः / क्रियेति गतिकर्माह // 6 // टी०-आ आकाशादेव धर्मादीनीत्येतावता भाष्येण कथं भाव्यते / अनन्तरसुत्रे सामर्थ्यपरिप्रापितानि धर्मादीन्यनुष्यन्ते, धर्मादीन्याकाशान्तानि निष्क्रियाणि भवन्ति,