________________ 328 तत्त्वार्थाधिगममूत्रम् [अध्यायः 5 नाभिधित्सिता विशिष्टैव, न क्रियासामान्यम्, धर्मादयः पूर्वावष्टब्धप्रदेशात् प्रदेशान्तरमपि विचलितुमनुत्सहमानाः कथमेवैवंविधक्रियाधारतां प्रतिपत्स्यन्ते ? तस्मानिष्क्रियाणीति निरवद्यं दर्शनम् // 6 // अधुनाऽधिकृतधर्मादिद्रव्याणां सर्वेषामेव प्रदेशावयवेयत्ताविष्करणार्थमिदमुच्यते भा०-अत्राह-उक्तं भवता-प्रदेशावयववहुत्वं कायसंज्ञामिति / तेत् क एष धर्मादीनां प्रदेशावयवनियम इति ? / अत्रोच्यते टी०-अत्राह-उक्तमित्यादिना सम्बन्धयति, अध्यायादिसूत्रे यस्मादजीवकाया इत्यत्र कायग्रहणं प्रदेशावयवबहुत्वार्थमिति व्याहृतम्, तस्मात् क एषां धर्मादीनां जीवान्तानां प्रदेशावयव नियम इति, अत्रेति प्रदेशावयवनियमप्रश्ने यथागममभिधीयते मया, एषोऽभिप्रायः प्रश्नयितुः-अमूर्तेषु धर्मादिष्ववयवव्यवहारो नास्ति, मूर्तेषु चान्त्यभेदावस्थेषु परमाणुषु, अवयवव्यवहारो हि मूर्तेष्वेव प्रतीयत इत्यतो नियमोऽभिधेयः के एपामवयवा इति / भा०–सर्वेषां प्रदेशाः सन्ति, अन्यत्र परमाणोः। अवयवास्तु स्कन्धानामेव / वक्ष्यते हि-'अणवः स्कन्धाश्च, सङ्घातभेदेभ्य उत्पद्यन्ते' (अ० 5, सू० 25-26) // टी.-सर्वेषामित्यादि भाष्यम् / मूर्तानाममूर्तानां च प्रदेशाः सन्ति-विद्यन्ते, संव्यवहारार्थे प्रदिश्यन्त इति प्रदेशाः, तत्र धमाधमोकाशजीवानां द्रव्यपरमाणुमूर्तिव्यवच्छिन्नाः प्रदेशाः, यथाऽऽह-"निरवयवः खलु देशः, खस्य क्षेत्रप्रदेश इति दृष्टः" / पुद्गलद्रव्यस्य तु निरंशो द्रव्यात्मना भागः प्रदेश इत्युच्यते, न तु तस्यान्यः प्रदेशोऽस्ति, अतः परमाणोरन्यत्रेत्युक्तम्, इदं च द्रव्यांशं प्रदेशध्वनिवाच्यमाधाय चेतसि भाष्यकारेणोक्तमन्यत्र परमाणोः प्रदेशाः सन्ति, न पर्यायांशं रूपादिलक्षणम् / यतः प्रशमरतौ (श्लो०२०८) अनेनैवोक्तं-"परमाणुरप्रदेशो, वर्णादिगुणेषु भजनीयः" / अत एव च भेदः प्रदेशानामवयवानां च, ये न जातुचिद् वस्तुव्यतिरेकेणोपलभ्यन्ते ते प्रदेशाः, ये तु विशकलिताः परिकलितमूर्तयः प्रज्ञापथमवतरन्ति तेऽवयवा इत्यत आह–अवयवा इत्यादि / विशेषार्थस्तुशब्दः / विस्रसारयोगाभ्यामवयूयन्त इत्यवयवाः पृथक् क्रियन्त इतियावत्, ते च स्कन्धानामेव द्यणुकादिकमवतामनतिक्रान्तरूपादिभेदानाम्, एवशब्दो नियामकः / धमोधमोकाशजीवाणूनां न सन्त्यवयवाः, स्कन्धानामेव भवन्ति / कुत एतदेवमित्याह-वक्ष्यत इत्यादि / यस्माद् वक्ष्यते सूत्रकारः-संघातभेदजाः स्कन्धाः (मू० 26 ) / वियुतानामवयवानां संहतिपरिणतौ स्कन्धा जायन्ते, संहतानां च भेदपरिणतौ घणुकादयः सम्भवन्ति, परमाणवस्तु भेदादेवावयूयमाना अवयवास्तस्मादवयवव्यवहारः पुद्गलद्रव्यविषय एवाध्यवसेयः॥ १'तस्मात् क एषां धर्मा' इति घ-पाठः। 2 एवं च सति स्कन्धादिरूपभेदचतुष्टयं पुदलास्तिकाये न स्यात् तत्त्वतः स्पष्टोपलभ्याः नेहादिकृतसंयोगवि. योगभावः अंशा अवयवास्ते यैः द्रव्यमन्यत् क्रियते भवन्ति वा ते स्कन्धेष्वेव, परेष्वप्रसिद्धत्वादवयवाहो न /