________________ 329 सूत्रे७-८ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् अधुनाऽवसितप्रदेशावयवनियमो धर्मादिद्रव्यप्रदेशानामियत्तामाविष्करोति, तत्रधर्माधर्मयोः प्रदेशसङ्ख्या सूत्रम्-असङ्ख्येयाः प्रदेशा धर्माधर्मयोः // 5-7 // टी.-सत्रेत्यादि / तेषु धर्मादिषु द्रव्येषु पञ्चसङ्ख्यावच्छिन्नेषु धर्माधर्मयोर. सङ्ख्येयाः प्रदेशा धर्माधर्मयोः प्रत्येकमसङ्ख्येयाः प्रदेशा भवन्ति, ते च लोकाकाशप्रदेशमानाः सङ्ख्येयानन्तसङ्ख्याद्वयव्युदासेनासङ्ख्येयाः कथ्यन्ते / प्रदेशस्वरूपनिर्दिधारयिषुराहभा०-प्रदेशो नामापेक्षिकः सर्वसूक्ष्मस्तु परमाणोरवगाह इति // 7 // टी०-प्रदेशो नामेत्यादि। प्रकृष्टो देशः प्रदेशः परमनिरुद्धो निरवयव इतियावत्, नामशब्दः किलार्थे, परोक्षत्वात् तस्य, एवं हि सर्वज्ञाः प्रत्यक्षेणोपलभ्य कथयन्ति, अपेक्षाप्रयोजनः अपेक्षानिवृत्तो वा आपेक्षिकः, स च स्वसिद्ध एवार्वाग्रदर्शनैरस्मदादिभिरनेनाभ्युपायेन प्रज्ञाप्यमान, आपेक्षिक उच्यते, सर्वेषां धमाधमोकाशजीवानामापेक्षिकत्वे सत्यपि सूक्ष्म एव, न स्थूलः / तुशब्दोऽवधारकः / आपेक्षिकत्वं निरूपयति-परमाणोरवगाह ति / द्रव्यपरमाणुपरिग्रहेण प्रदेशपरिमाणोरवगतिः क्रियते, तदेतदुक्तं भवति-तन्मूर्तिमावाक्रान्तो देशः प्रदेश उच्यते, अवगाहो व्यवस्थानमाक्रान्तिरध्यासनमिति पर्यायाः, न पुनरिहावगाहो गतिः / नन्वेवमाकाशस्यैव प्रदेशो निरूपितः स्यात्, नो धर्मादीनाम्, यतोवगाह आकाशस्य लक्षणम् / अस्तु, को दोषः? प्रदेशलक्षणं तावनिज्ञातम्, लोकाकाशे च यत्राकाशप्रदेशः स च यावांस्तत्रैव धर्मास्तिकायप्रदेशोऽवगाढः स च तावानेवेति, एवमधर्मप्रदेशोऽपि तत्र वाच्योऽतस्तुल्यप्रमाणत्वादेकेनैव प्रघट्टेन प्रदेशनिरूपणम्, तत्राकाशमवकाशदाने व्याप्रियते, गतिपरिणतो धर्म उपकारकः, स्थितिपरिणामे चाधर्मद्रव्यमुपकरोति, तसाद सर्वप्रदेशानामिदमेवापेक्षणीयमव्याहतं लक्षणम् / इतिशब्देनोपसंहरन्ति-धर्माधर्मयोरियती प्रदेशसङ्ख्येति // 7 // अधुना त्वसङ्ख्येयप्रदेशे प्रस्तावमुपजीवन् जीवस्य तत्तुल्यप्रदेशनियतत्वात् प्रदेशनियमं विधत्तेजीवस्य प्रदेश- सूत्रम्-जीवस्य च // 5-8 // ___भा०–एकजीवस्य चासङ्ख्येयाः प्रदेशा भवन्तीति // 8 // सङ्ख्या 1 यथा हि स्कन्धेषु संबद्धः प्रदेशः कदाचिदपि आगत्य संलग्नो नैषमयमिति भावः / निश्चयपरमाणुज्ञापनाय सर्वेत्यादि, अन्यथा तु एकस्मिन्नपि परमाणुसमूहस्य तन्मयस्य च स्कन्धस्य चावगाहात्, तथापि नैकः परमाणु। प्रदेशाद्वयावगाहीति सुक्तमिदं, सूक्ष्मावगाहस्य तस्यैव भावात् /