________________ 318 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 यत्रैकः स्थितो धर्मप्रदेशः तत्रापरोऽपि तत्प्रदेशः प्रतिष्ठित इति, तेषां विभक्तप्रदेशानां योऽसौ परस्पराविच्छेदलक्षणः समुदायः सोऽवश्यंतया तथोत्पन्नः समुदायशब्दवाच्यत्वात् // नन्वेव. मादिमत्त्वं धर्मादीनां प्रसज्यते तन्त्वादिसमुदायवत् / उच्यते-तेऽपि हि नादिमन्तः पुद्गलद्रव्यस्यानेकशक्तित्वात्, सा च शक्तिः शक्तिमतो भेदाभेदाभ्यां त्रिसूत्र्यामेव वक्ष्यते, पत्र चोत्पादस्तत्रावश्यं विनाशेन भवितव्यम्, तत्सहचारित्वात्, स च विनाशः पूर्वावस्थाप्रच्युतिलक्षणः समुदायादेवोनीयत इति / अथवाऽधुना गतिपरिणतिभाजश्चैत्रस्य धर्मद्रव्यमुपग्रह कुरुते, तचोपग्रहकारितया प्रागजिगमिषति चैत्रे न व्यापारमगमत्, उत्तरकालं तु कोऽपतिशयः समुदपादि येन गतरुपग्रहकृद् भवति कयाऽपि विक्रियावस्थयेत्यतस्तेनाकारणोत्पादः समुपरतगतिव्यापारे च चैत्रे तया गत्युपग्रहव्यापारावस्थया तत्पुनरपैत्यतो विनाश एव / अधर्माकाशयोरपि स्थित्यवगाहनामुखेनोत्पादविनाशौ वाच्यावतः कायग्रहणात् सुगम आपत्तिशब्दार्थ इत्यतोऽस्ति चासौ कायश्चेत्यस्तिकायः, ध्रुवश्चासावुत्पादविनाशवांश्चैत्यर्थः, धर्मपासावस्तिकायश्च धर्मास्तिकायः, एवमधर्माकाशावपीति / पुद्गलास्तिकाये तूत्पादव्ययध्रुवताः प्रकाशा एव प्रायः // एवमेतांश्चतुरोऽप्यजीवान् सूत्रेण परिगणय्याह-तान् लक्षणतः पर. स्ताद वक्ष्यामः / तान् धर्मादीनेतावतः परस्ताद्-उपरि लक्षणतो गतिस्थित्युपग्रहावगाहशरीराद्युपकाररूपाद् वक्ष्यामः, इदं तूद्देशमात्रमारचितममुना सूत्रेण, अवश्यंतया च पदार्थभेदमभ्युपयता विविक्तमेव लक्षणमासञ्जनीयम्, अन्यथा भेद एव दुरुपपादः स्याद्, अतस्तान् प्रत्येकं लक्षणभेदेनाग्रे प्रतिपादयिष्याम इति // अथ कायग्रहणं किमर्थमित्यत आह-कायग्रहणं प्रदेशावयवबहुत्वार्थमद्धासमयप्रतिषेधार्थ चेति // ननु च कायग्रहणस्य प्रयोजनं वर्णितमापत्तिः कायशब्दार्थ इति, सत्यमुक्तं भाष्याक्षरानपेक्षम्, अधुना तमेवार्थ भाष्याक्षरैर्दर्शयति, विनाऽपि कायग्रहणेन धर्मादीनामजीवता गम्यत एव, तस्मात् तस्योपादाने प्रयोजनमेषां धर्माधर्माकाशानां प्रदेशबहुत्वमिष्यते, प्रकृष्टो देशः प्रदेशो निर्विभागः खण्डमनपायि स्वस्थानाद् अनादिकालपरिणामापादिततथास्थितिः, तेषामेवंविधप्रदेशानां बहुत्वं धर्माधर्मयोरसङ्ख्येयप्रदेशता प्रत्येकम्; आकाशस्यानन्तप्रदेशता बहुत्वार्थः, एवंविधासङ्ख्येयप्रदेशसमुदायो धर्मास्तिकायस्तथैवाधर्मास्तिकायः, आकाशमपि लोकपरिमाणमेतावत्प्रदेशसङ्ख्यम, समस्ताकाशं त्वनन्तप्रदेशमित्येवं समुदितिरूपत्वाद् गत्याद्यपग्रहविक्रियापत्तिद्वारेण स्फुटैवापत्तिरिति / पुद्गलद्रव्यमङ्गीकृत्यावयवबहुत्वमुक्तम् , अवयूयन्त इत्यवयवाः परमाणुयणुकादयः, परमाणवो हि समुदायपरिणतिमनुभूय भेदमपि प्रतिपद्यन्ते, ततश्चैकका अपि भवन्ति, न त्वेवं धर्मादिप्रदेशाः, अत एव च नावयवास्तेऽभिधीयन्ते, तस्माद् भेदेनोपादानं प्रदेशावयवयोः, बहवयवं हि पुद्गलद्रव्यमवगन्तव्यम्, सङ्ख्येयप्रदेशः स्कन्धोऽसङ्ख्येयप्रदेशोऽनन्तप्रदेशोऽनन्तानन्तप्रदेशश्चेति // ननु चैकोऽपि परमाणुः पुद्गलद्रव्यमेव स कथं बहवयवो भवेत् ? किमत्र प्रतिपाद्यम् ? ननु प्रसिद्धमेवेदमेकरसगन्धवर्णो द्विस्पर्शश्वाणुर्भवति, मा. 1 अजीवप्रकरणायाजीवशब्द इत्यर्थः /