________________ 376 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 त्याख्यायते, न चालोकग्रहणे सति रूपबुद्धिर्भवति चित्ररूपवत् सालोकस्य रूपस्य ग्रहणात, आलोके तु सति स्याद् रूपबुद्धिः // पुनराशङ्कते-प्रत्यक्षानुमानाभ्यामननुभूते समुदाये कथं स्मृतिरुत्पद्यत इति, न, अनेकान्तात् , विकल्पितेऽपि ह्यर्थे स्मृतिर्दृष्टा बन्धुमत्याख्यायिकादौ / अस्ति च घटादिसङ्केतप्रभवः समुदाये विकल्पो वनादिविकल्पवत् , अन्यथा वनसेनास्मरणमपि न स्यात् , एवं च न रूपादिव्यतिरिक्तं द्रव्यं समस्तीति व्यवस्थितम् // पुनरप्याह-अस्त्येवान्यद् द्रव्यम् , बुद्धिभेदात्, अन्यैव हि रूपाधीरन्या च घटबुद्धिः / अर्थ च बुद्धिभेदोऽन्यत्वे सति भवति, नान्यथा, तस्माद् रूपादिद्रव्ययोरन्यत्वं बुद्धिभेदाद् गवादिवदिति, अयुक्तमेतदपि, यदि तावदुभयोरन्यत्वं साध्यते, द्रव्याभाबादेकदेशाश्रयासिद्धः, नहि सतोऽसतश्चैकमेव विशेषणं न्याय्यम् / अथ रूपादिभ्यो द्रव्यस्यान्यत्वं साध्यते, तदसमञ्जसम् , नहि द्रव्यं नाम किञ्चदस्ति स्वरूपेण यस्यान्यत्वं साध्येत, सिद्धे धर्मिणि धर्मविप्रतिपत्तौ साधनसद्भावात् , अनेकान्तिकश्च पानकादिभिवुद्धिभेदादिति, विनाऽद्रव्यस्याः प्यर्थान्तरभूतद्रव्यकल्पनया मनीपाभेदस्य सद्भावात् , रूपाद्यवयवानां सनिवेशविशेषाद् बुद्धिभेदः, यथा गुडोदकाभ्यां पानकं नार्थान्तरमथ च बुद्धिभेदः, एवं विपइत्यादिप्वरि द्रष्टव्यम् / तस्मानोत्पादव्ययव्यतिरिक्तः कश्चिदस्ति ध्रौव्यांशो यमाश्रित्य प्रज्ञाप्येत द्रव्यमेकमभेदप्रत्ययहेतुरिति / स्वात्मव्यतिरिक्तावयव्यारम्भकास्तन्तव इति चेत् , अयुक्ततरमिदं तुलानतिविशेपाभावात् , यस्य ह्यवयवगुणा गुणान्तराण्यारभन्तेऽवयविनि " द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् " इति वचनात तस्य दशपलपरिमाणभाजस्तन्तवः पटे गौरवान्तरमारभेरन् , अतस्तुलानतिविशेपाग्रहणान्ना न्योऽवयव्यवयवेभ्य इति धर्माविशेषनिराकरणात् पक्षापवादो वाक्यार्थः, पटश्च तन्तुपु समवयन् प्रतितन्तु वर्तेत कात्स्येन देशेन वा ? न तावदेकत्र तन्तौ कृत्स्नः समवेतः, सन्निकृष्टेऽपि तन्तावग्रहणात् , स्तम्भादिसन्निकर्षे मेवोद्यग्रहणवत् , यश्च यस्मिन् समवेतः स तत्सन्निकर्षे गृह्यते, यथा रूपादिः, अवयविवहुत्वप्रसङ्गश्च, अथ तन्तौ पटस्य प्रदेशो वर्तते, न तर्हि कचिदेकः पटो वर्तत इति प्राप्तम् , न च तन्तुव्यतिरेकेणान्यः परस्य देशोऽस्ति येन देशेनासौ तन्तौ वर्तेत. तन्तुरेव च तस्य देश इष्यते वैशेषकैः, न च तस्यैव तस्मिन् वृत्तियुज्यते, सावयवश्वावयवी स्यादिति / एवमवस्थितैकद्रव्याभावात् सर्वमुत्सादविनाशलक्षितमर्थक्रियासमर्थ वस्तु, उत्पादविनाशशून्याश्च शशविपणादयो न वस्तुव्यपदेशभाज इति प्रतीतम् / न च परमार्थतः कारणप्रकतिरस्ति द्रव्यसत्ता यत्रावगम्यते भव्यत्वात् , कारणं कार्यमिति कल्पनामात्रमेतत् , प्रती. त्यप्रत्ययमात्रवृत्तित्वाद् दीर्घत्व-हस्वतावत्, तन्तुष्टयोमृद्धटयोवा न किश्चित् स्वसिद्धं रूपमस्ति, तन्तुषु मृदि वा यः कारणप्रत्ययः स पटकुम्भायशेपार्थान्तगपेक्षया न स्वसिद्धः, तस्मात तन्तुपटयोर्यस्तन्तुपटप्रत्ययः स इतरेतराश्रयत्वादसदर्थविषयः, तथा मृघटयोरतकारणकार्ययोगभाव एव स्वरूपस्यासिद्धत्वाद् व्योमोत्पलादिवदिति / अत्रोच्यते-प्रागुत्पतद्भिरेवास्माभिरभ्यधायि स्थित्युत्पत्तिविनाशस्वभावं सकलमेव सद, एतौ च द्रव्यपर्यायौ THEHESHTHHTHHTHHI