________________ सूत्रं 29] स्वोपज्ञभाष्य-टीकालङ्कृतम् 375 उपयोगे च किश्चिद् द्रव्यमन्यात्मपरमाणुव्यणुकादि वैक्रियशरीरादि च सदपि नोपलभ्यते, __ तस्य च द्रव्यस्य तथाविधपरिगामात्, अदिशब्दाद दिवा तारकादयो केषांचिद् द्रव्याणा-माषश्च माषराशावुपक्षिप्तः, किश्चित क्षेत्रविप्रकर्षाद्धि दरात्यासनसव्यवधा. नवर्ति विद्यमानमेव नोपलम्भविषयभूयमास्कन्दति, तथाऽपरं कालविप्रकपोदनाविर्भूतं तिरोभूतमुपलब्धेरगोचरः, तथाऽन्यद्भावविप्रकर्षात् परकीयात्मवर्तिमतिज्ञानविकल्पजालमण्वादिपरिवर्ति च संस्थानरूपादिपर्यायकलापजातं सदप्यनुपलभ्यम् , विवक्षितोपलब्धेधान्या उपलब्धिरनुपलब्धिः , पयुदासवृत्तेरभ्युपगमात्, न पुनरुपलब्ध्यभावोऽनुपलब्धिः , अनुपाख्यस्याभावस्य प्रत्याख्यानात् , भावस्यैव चाभावशब्देन कथञ्चिदभिधेयत्वात् , तस्मादुपलम्भकारणभाज एवानुपलब्धिर्नान्यथा, व्यवस्थितमिदं नाभावः प्रतिषेधमात्रमिति / एवं च ध्रौव्यं द्रव्यास्तिका, अस्तीति मतिरस्येत्यास्तिकः द्रव्य एवास्तिको द्रव्यास्तिकः, सकलभेदनिरासादकृतलक्षणस्य च तत्पुरुषस्य मयूरव्यंसकादिप्रक्षेपात् समसनम् , तच्च द्रव्यं भवनलक्षणं मयराण्डकरसवदुपारूढसर्वभेदबीजं निर्भेदं देशकालक्रमव्यङ्ग्यभेदं समरसावस्थमेकरूपं भेदनत्यवमर्शनाभिन्नमपि भिन्नवदाभासते, तदाश्रयाच भवितरि विशेषे भवति भावता, अन्यथा तु ___ भाव एव न स्यात् भविता विशेषो, भवनव्यतिरेकित्वात्, तदव्यतिद्रव्यपर्यायास्तिको रिक्तरूपत्वाच्च भवितुर्विशेषस्य तत्स्वरूपवद्भावता, तदव्यतिरिक्तरूपता च। एवं सति भवनमात्रमेवेदं कृत्स्नं भेदाभिपतास्त्वेता वृत्तयस्तस्यैव न जात्यन्तराणीति // पर्यायः पुनरपवादस्वभावाऽन्यपरिवर्जनमपवदनमपवादः स ह्यन्यपरिवजैनेनान्यं प्रतिपादयति, प्रतिषेधरूपत्वाद् , अघटो न भवतीति घटः, पर्याया एव सन्ति न पुनद्रव्यं नाम किश्चिदेकं पर्यायार्थान्तरभूतमस्ति, द्रव्यास्तिकावधारितध्रौव्यवस्तुप्रतिक्षेपेण भेदा एव वस्तुत्वेन प्रतिज्ञायन्तेऽतः पर्याय आस्तिकः पर्यायास्तिकः, समुपलभ्यमानायःशलाका कल्पभेदकलापव्यतिरेकेण द्रव्यस्यानुपलम्भात् // ननु च रूपादिव्यतिरेकेण मृद्रव्यमित्येकवस्त्वालम्बनश्चाक्षुपः प्रत्ययः प्रत्याख्यातुमशक्यः सन्तमसपटलावच्छादितप्रदेशवर्तिनि वा मृद्रव्ये स्पर्शनज्ञानमभिन्नमृद्रव्यमात्रालम्बनमसत्यमिति वा भापितुं न द्रव्यस्यापलापः पार्यत इत्यस्त्यभिन्नमेकं द्रव्यमभेदज्ञानविषयत्वात् , न चायमभेदप्रत्ययो भ्रान्तः, पुनः पुनः प्रेक्षापूर्वकारिभिस्तथैवोपलभ्यमानत्वात् , नैतदेवम् , अन्यविषयत्वाद् रूपस्पर्शविषयाचक्षुःस्पर्शनज्ञानाद् भिन्न विषयोपलम्भिनोऽन्यदेव रूपादिसमुदयविषयं स्मार्तमभेदज्ञानमुत्पद्यते स एवायं घटो यमहमद्राक्षमहनि रात्रौ वा यं चास्पाक्षम् , अतो रूपायग्रहे तस्या अभेदबुद्धेरनुत्पादात् // एतदुक्तं भवति-दृष्ट्वा स्पष्वा वा स एवायं घट इति पदभेदज्ञानं तद् रूपादिसमुदयविषयं स्मार्तम् , तदग्रहे सत्यनुत्पत्तेः, यथा विज्ञानं धवाद्यग्रहे सत्यनुत्पद्यमानं धवादिविषयमिति / / नन्वालोकाग्रहणे शुक्लबुद्धिने भवति, न चालोकविषया शुक्लबुद्धिरित्येवमन्यत्वेऽपि साध्ये, न चालोकाद् रूपं नान्यदित्यनेकान्तः, नैतदेवम्, हेत्वर्थापरिज्ञानात्, रूपाद्यग्रहे तदुद्धधभावादित्यनेन तदभावाभावमुखेन रूपादिग्रहे सत्येव भावादि