________________ 374 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 5 गम्याभिगमोपायविषयेण प्रश्नेनोपक्रान्तं चोदयित्वाऽतः प्रतिवचनमपि तथैवाचार्येणोच्यते, येन लक्षणेन प्रमाणानि तद्विषयश्च लक्ष्यते तयापि लक्षणमभिधीयत इति / तच्चेदं सूत्रम् सूत्रम्-उत्पादव्ययध्रौव्ययुक्तं सत् // 5-29 // भा०-उत्पाद्व्ययाभ्यां ध्रौव्येण च युक्तं सतो लक्षणम् ; यदुत्पद्यते, यद् व्येति, यच्च ध्रुवं तत् सत् / अतोऽन्यदसदिति // 29 // टी.--उत्पाव्ययाभ्यामित्यादि / समासतश्चायं सूत्रार्थः-स्थित्युत्पत्तिविनाशस्वभाव सद् , अवश्यन्तयैव स्थित्युत्पादविनाशाः समुदिता एव सत्त्वं गमयन्ति / स्थित्यादयो हि सत एव भवन्ति, न जातुचिन्निरुपाख्यस्य, केनचिदप्याकारणानुपाख्यायमानत्वादिति / यत् कथंचिन्न ध्रुवं न चोत्पद्यते न च व्येति तन्न सदिति / इदं च सूत्रं द्रव्यपर्यायनयद्वयगर्भम् यतो द्रव्यास्तिकपर्यायास्तिकावुत्सर्गापवादस्वभावौ मूलं सङ्ग्रहादिप्रपञ्चस्य, तनिरूप्यं च सर्व वस्तु, ते च सङ्ग्रहादयः प्रथमाध्याये विध्यपवादस्वरूपतया, निरूपिताः, विशेषविवक्षया तु किश्चिदुच्यते-उत्सर्गो विधिर्व्यापित्वमप्रतिषेधः, न ह्यसौ द्रव्यनयो विशेषमिच्छति, विशेषो अन्यप्रतिषेधेनात्मानं प्रतिपादयति भावान्तरत्वात् , न चाभावः प्रतिषेधमात्रम् / प्रागभावो हि घटस्य मृत्पिण्डः प्राग्घटोत्पादाद घटस्याभावः पिण्ड एवानाविभूतघटाकारः 1, प्रध्वंसाभावोऽपि कपालाद्यवस्थाप्रध्वंसो विनाशः, स चावस्थान्तररूपत्वाद् वस्तुस्वभावं न जहाति, वर्णकविरचनामात्रप्रापितनटान्यत्ववदुत्फणविफणादिसंस्थानमात्रत्यागिसर्पवद् वा 2; इतरेतराभावोऽपि स्तम्भकुम्भादीनां परस्परव्यतिरेकरूपत्वान्नावस्तु, घटो हि घटसंस्थानादिव्यतिरेकापेक्षस्वरूप एवाभावशब्दवाच्यः, समस्तवस्तुनश्च तथाविधत्वाभ्युपगमाद् वस्त्वेव भवतीतरेतराभावः 3; अभावस्या- न चात्यन्ताभावः कश्चिदनुपाख्योऽस्ति, सर्वप्रकारमनुपाख्यायमानप्रतिषेधात्मकता स्वरूपानधिगमात्, शशविषाणादेर्वस्त्ववस्थान्तरत्वादुपलब्धिविषयत्वम् , शशविषाणाभावो हि मौण्डथं समतलमस्तकस्वरूपोपलब्धि त्यन्ताभावः, विषाणसद्भावादन्यत्र शशकमस्तकसद्भावाचेतरेतराभाव एव, समवायसम्बन्धप्रतिपेधमात्रत्वाद्, वा अन्यत्र च तस्य सत्त्वान्नात्यन्ताभावः, नामकर्मपरिणामवशाचापत्यवत्वे वन्ध्यायाः केन तद्वत्ता निवार्यते, नहि पूर्वोपात्तकर्मविपरिणामव्यतिरेकेण तज्जीवतथाविधपरिणत्यभावे वा उत्तरजन्मप्रतिपत्तिरमूलत्वात् 4; अतः सर्व एव पदार्था द्रव्यक्षेत्रकालभावभेदापेक्षाः कदाचिदुपलभ्यन्ते प्रत्यक्षादिना, प्रमाणेनावधार्यन्ते, कदाचिदुपलब्धाः सन्तोऽपि भूयो नोपलभ्यन्ते, द्रव्यादिविप्रकर्षात, सत्यपि मतिज्ञानावरणीयकर्मक्षयोपशमकारणसाकल्ये 1' उत्पादव्ययौ ध्रौव्यं च युक्तं ' इति घ-पाठः। 2 सामान्यविशेषोभयाग्राहित्वान्नैगमस्य संग्रहव्यवहारयोरन्तवाद। 3 पूर्वः पूर्वो विधिः परःपरोऽपवाद इति। 4. प्रतित' इति क-ख पाठः /