________________ सूत्रै 28 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 373 तस्मान्नैन्द्रियकत्वे सङ्घातः केवलो हेतुर्भवति, नापि परिणामः, किं तर्हि 1 उभाभ्यां भेदसङ्घाताभ्यामेककालाभ्यां चाक्षुषा भवन्ति, चक्षुर्ग्रहणाच समस्तेन्द्रियपरिग्रहः,पश्यति-उपलभते इति चक्षुः, स्पर्शरसगन्धशब्दा अप्येवंविधपरिणाममाज एव निजोपलम्भनरुपलभ्यन्त इति // अचाक्षुषास्त्वित्यादि / ये पुनरतीन्द्रिया द्यणुकादयोऽनन्ताणुकपर्यवसानाः स्कन्धाः सूक्ष्मास्ते यथाभिहितात् त्रिविधात् कारणात् सङ्घातादेरुत्पद्यन्ते। न चेदमाशङ्कनीयम्-स एव पादरासत एव च पुनः सूक्ष्मा इति, यतो विचित्रपरिणामाः पुद्गलाः कदाचिद् बादरपरिणाममनुभूय जलधरशतक्रतुचापसौदामिनीलवणसकलादिकमथ पश्चादलक्षणीयपरिणाममात्मस्वरूपावस्थानस्वभावमतिसूक्ष्ममाददते करणान्तरग्रहणलक्षणतां वा भजन्ते लवणहिङ्गुप्रभृतयः, सूचनीयपरिणामश्च जनित्वा पुनरपि वियति परितः सकल दिगन्तरावरोधिवारिधरत्वादिना स्थूलेनाकारेण परिणमन्ते / तुशब्दः पुनःशब्दार्थे, चशब्दः समुच्चये, इतिशब्दः प्रकृतपुद्गलप्रकरणपरिसमापनार्थः // 28 // भा०-अत्राह-धर्मादीनि सन्तीति कथं गृह्यत इति ? / अत्रोच्यते-लक्ष. णतः / किञ्च सतो लक्षणमिति ? / अत्रोच्यते-- . टी--अत्राहेत्यादिसम्बन्धग्रन्थः। धर्मादीनां द्रव्याणां यथासम्भवं गतिस्थित्युपग्रहादिलक्षणमुक्तं वैशेषिकम् , अधुनाऽन्तरङ्गव्यापिलक्षणजिज्ञासया सन्दिहानः प्रश्नयति-धर्मादीनि सन्तीति कथं गृह्यत इति / अस्ति चात्र सन्देहबीजम् कि विकारग्रन्थिरहितं सत्तामात्रमेते धर्मादयः आहोस्विद् विकारमात्रमुत्पादविनाशलक्षणमयोभयम् ? इत्येवमनेकप्रकारसम्भवे सन्देहः, कथं-केन प्रकारेण, धर्मादीनि सन्ति-विद्यन्त इति / इतिशब्दो हेतौ / येन हेतुना सत्त्वमेषां निश्चीयते तद्विपयत्वमितिकरणस्य, वाक्यपर्यन्तवर्तीतिशब्दः प्रष्टव्यार्थयत्ताख्यापनार्थः गृह्यत इति ग्राह्य, निश्चयमित्यर्थः। किं तदस्तित्वमेपामिति / अथवा धर्मादीनि सन्तीत्यस्तित्वमेव सन्दिग्धे परः // ननु च येषां गत्याधुपकारेणानुमितमस्तित्वं प्राक ते प्रसिद्धसत्ताका एव, कुतः सन्देहः ? अयमभिप्रायः प्रष्टुः-गत्याद्युपग्रहकारिणः किल धर्मादयः केऽपीत्यप्र सिद्धसत्ताकेनैव प्रपत्त्राभ्युपेतम्।इदानीं तु प्रश्नयति-कथं पुनरेषां धर्मादीनां सल्लक्षणसूत्राव- विद्यमानत्वं निश्चेयमिति ? / आचार्य आह-अत्रोच्यते-लक्षणतः // तरणम् __आचार्यस्यायमभिप्रायः, सङ्ग्रहादेकीभावादुत्पादादयः सल्लक्षणमस्तिशग्दविषयः, एवंविधाश्चैत उपलभ्यन्त इत्यतः सामान्येन तावदुपन्यस्यति-लक्षणत इति / पुनरपि सामान्याभिधाने सन्दिहान आह-किञ्च सतो लक्षणमिति ? किं पुनः सतो लक्षणं, लक्ष्यते येन लक्षणेन प्रमाणानि तद्विषयश्च, लक्ष्यते येन सदेतदिति / अत्रोच्यते-इत्याचार्यः प्रतिजानोते, सत्वलक्षणम् , तेषां धर्मादीनामस्तित्वाव्यभिचारिलिङ्गमिदमुच्यते // एतदुक्तं भवति-धर्माधर्माकाशपुद्गलजीवाः पञ्चास्तिकाया जगतः स्वतत्त्वम् , तत्र जीवद्रव्यं धर्मादीनां ग्राहक स्वरूपस्य चेति, सक्षेपतः शब्दार्थज्ञानानि सत्त्वलक्षणलक्ष्याणीति, अतः सकलाधि