________________ 372 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 प्रागुपदिष्टमणुवर्जानां बिहेतुकोत्पत्तिःसङ्घातभेदेभ्य उत्पधन्त इत्यत्र सूत्रे, स एष व्यणुकादिप्वचाक्षुषेषु क्रमस्तद्विपर्ययभाजस्त्वेकान्तेनैव स्कन्धाः समुपजायन्ते // 27 // सूत्रम्-भेदसङ्घाताभ्यां चाक्षुषाः॥ 5-28 // भा०-भेदसङ्घाताभ्यां चाक्षुषाः स्कन्धा उत्पद्यन्ते / अचाक्षुषास्तु यथो. क्तात सङ्घाताद भेदात् सङ्घातभेदाचति // 28 // टी०-चक्षुष इमे गोचरीभूता इति तस्येदं' ( पा० अ० ४,पा० 3, मू० 120) इत्यण। चक्षुग्राह्याश्चाक्षुपाःप्रयोगविस्रसाजनितात साङ्गत्यादायत्या स्कन्दनात् स्कन्धाः ते वीदृश्या उत्पद्यन्ते, ये च चक्षुषा गृह्यन्त इति, न त्वयं नियमो भेदसङ्घाताभ्यामुत्पन्नाः सर्वे चाक्षुषा भवन्ति, यतो भेदसङ्घाताभ्यामचाक्षुपाणामप्युत्पत्तिः, अत एवं व्याख्येयम्-स्वत एव परिणतिविशेषाचाक्षुपत्वपरिणामभाजो बादराः स्कन्धाः सवातभेदाभ्यामुत्पद्यन्ते इत्येतनियम्यते॥ अपरे वर्णयन्ति-सङ्घातादेव स्कन्धानामात्मलाभसिद्धे दसङ्घातग्रहणमनर्थकम् , नैतदेवम् , तद्विशेषज्ञापनार्थत्वात, न सर्व एव सधातश्चक्षुषा ग्राह्यः, यतोऽनन्तानन्ताणुसंहतिनिष्पाद्योऽपि स्कन्धो बाद परिणतिमानेव नयनादिगोचरतां प्रतिपद्यते, न शेष इति / एवं च व्याचक्षाणानां भेदग्रहणमनर्थकमेव स्यात् तच्चायुक्तम्, यतः सूक्ष्मपरिणामोपरतौ स्थौल्यपरिणामः, तत्र च यथा संहन्यन्ते परमाणवस्तथा भिद्यन्तेऽपि च केचनेत्यतःसङ्घातभेदाभ्यामेव चाक्षुषा निष्पद्यन्ते, न सङ्घातादेवेति / / ननु चाचाक्षुषाणामणूनां समुदायस्तन्मात्रः, स कथमनाहितातिशयश्चाक्षुपः स्यात् ? / उच्यते-सर्वस्य वस्तुनः सतः परिणामात् परिणामान्तरं कथञ्चिद् भिद्यत एवेत्यणुत्वपरिणामाच्चक्षुर्विषयपरिणामो भिन्नः, परमाणवो हि अणुत्वपरिणामपरिणतत्वमपहाय बादरपरिणाममागृह्णते रोक्ष्यस्नेहविशेषात्, अष्टविधः स्पर्शो भगवद्भिरुक्तः स्कन्धेषु यथासम्भवम्, परमाणुषु पुनश्चतुर्विधः स्पर्शो नान्यः, स च शीतोष्णस्निग्धरूमाख्यः, तत्राप्येकपरमाणौ परस्पराविरोधिद्वयं समस्ति, अत्र च बन्धपरिणामे स्पर्शद्वयमुपयुज्यते स्निग्धरूक्षलक्षणम्, केचित् स्निग्धपरिणामपरिणताः केचिद् रूक्षपरिणतिभाज इति, उभयस्य तु विरुद्धत्वादेकस्मिन् परमाणावसम्भवः, तत्राप्येकगुणस्निग्धत्वपरिणता इत्यादि यावदनन्तगुणस्निग्धत्वपरिणतास्तथा रूक्षत्वेऽपि / परमाणवश्व सर्वेऽपि सजातीया एव, न केचित् विजातीयाः, रूपादिचतुर्गुणत्वं सर्वेषां स्पर्शवत्वादिति द्रष्टव्यम्, एवं च तेषां रौक्ष्यस्नेहविशेषाद् भवति द्रव्यान्तरेण बन्धपरिणामस्तादृशो येन प्रचय विशेषान्महत् स्थूलं घटाघभिनिवर्त्यते श्लेपमृद्रजः सम्बन्धित णादिवदित्यतस्तन्मात्रत्वमनाहितातिशयत्वं न सङ्गच्छते, एवं चोपवर्णितस्वगतभेदाभ्युपगमा: निरतिशयत्वं सर्वथा सर्वप्रकारं न केपांचिदुपपद्यते पदार्थानाम्, न चात्यन्तिक एव भेदः, किन्तु किंचित सामान्यमप्यस्त्येव, न च केवलः परिणाम एवैन्द्रियकत्वे कारणं भवति, किन्तु प्रतिविशिष्टानन्तसङ्ख्यासङ्घातापेक्षः परिणामः स्थूलः प्रतीन्द्रियनियतविषयतामास्कन्दति,