________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् 145 स्वामिकम् , एवमेतत् त्रिविधमपि दर्शनावरणकर्मणः क्षयोपशमादुपजायत इति / अत्र अपीति शब्दः क्षायोपशमिकदर्शनेयत्ताधिगमार्थः / लब्धयः पञ्चविधाः इत्यमुना विवरणेन यथासख्यमुपदर्शयति-दानलब्धिरित्यादिना भाष्येण, आदिशब्दाक्षिप्ताः प्रतिविशिष्टा एव लग्वीरुपवर्णयति, अनेकरूपत्वाल्लब्धीनाम् / / नन्वनन्तरसूत्रनिर्दिष्टाः प्रतिपदमेता एव ग्रहीष्यन्ते न पुनरुपादेया इति उच्यते-अत एव सूत्रे नोपात्ताः, प्रतिपदविवरणे पुनर्न दोषः कश्चित् , यथा यथा सुविवृतं भवति तथा तथा विवृणोति / एताः पञ्चापि लब्धयोऽन्तरायकर्मणां क्षयोपशमाद् भवन्ति, सम्यक्त्वमनन्तानुबन्धिकषायदर्शनमोहक्षयोपशमादाविअकास्ति, चारित्रमपि दर्शनमोहकषायद्वादशकक्षयोपशमाज्जायते सकलविरतिलक्षणम् , संयमश्वासावसंयमच संयमासंयमः-सङ्कल्पकृतात् प्राणातिपातानिवृत्तिरारम्भकृतादनिवृत्तिः तथा मृपावादादिष्वपि योज्यम् / सङ्खपतो द्वादशविधः श्रावकधर्मः संयमासंयमो व्यावृत्तिप्रवृत्तिलक्षणः / स च दर्शनमोहापोहादनन्तानुबन्ध्यप्रत्याख्यानकषायाष्टकक्षयोपशमाजायते / इतिशब्दः क्षायोपशमिकभेदेयत्ताप्रतिपादनार्थः / एतत् प्रतिपदमुद्दिष्टाः / अष्टादशेति सङ्ख्यावच्छिन्नाः / क्षायोपशमिका इति शेषभावव्युदासः / भवनलक्षणास्त्वेते भावाः प्रादुष्प्यन्तीति // 5 // औदयिकस्त्वेकविंशतिविधान उद्दिष्टः, सोऽधुना भण्यतेसूत्रम्-गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धत्व लेश्याश्चतुरुयेकैकैकपड्भेदाः // 2-6 // भा०-गतिश्चतुर्भेदा-नारक-तैर्यग्यौन-मानुष्य-देवा इति / कषायश्चतु भदः-क्रोधी, मानी, मायी, लोभीति। लिङ्ग त्रिभेदं-स्त्री, पुमान्, बम 21 भेदा नपुंसकमिति / मिथ्यादर्शनमेकभेदं, मिथ्यादृष्टिरिति / अ ज्ञानमेकभेदं, अज्ञानीति / असंयतत्वमेकभेदं, असंयतोऽविरत इति / असिद्वत्वमेक भेदं, असिद्ध इति / एकभेदमेकविधमिति / लेश्याः षड्भेदाः- कृष्णलेश्या, नीललेझ्या, कापोतलेश्या, तेजालेश्या, पालेश्या, शुक्ललेइया / इत्येते एकविंशतिरौयिकभावा भवन्ति // 6 // ___टी०-गतिकषायेत्यादि सूत्रम् / गत्यादीनां लेश्यान्तानां द्वन्द्वः / चतुरादीनां इन्तानां द्वन्द्वगर्भो बहुव्रीहिः / एवमियमेकविंशतिरौदयिकभेदानामवसेया // ननु च बहवोऽसगृहीताः कर्मभेदाः प्राप्नुवन्त्यौदयिकाः, त्वया च परिसख्या क्रियते, दर्शनावरणे जावन्निद्रादिपञ्चकं वेदनीयमुभयं मोहनीये हास्यादिषट्कं आयुश्चतुर्विधं नामकर्म सकलम् , गतिरुपात्ता केवलं तत्रत्या, गोत्रमुभयमपि, सर्वे एते औदयिका भावाः तत् कथमेषां परिगणनेन सङ्ग्रहः ? उच्यते-अज्ञानग्रहणानिद्रादिपश्चकमाक्षिप्तम्, यतो ज्ञानदर्शनावरण 'तिर्यक् ' इति ख-पाठः /