________________ 146 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 2 दर्शनमोहनीयोदयादज्ञानं भवति, गतिग्रहणाच्छेपनामभेदाः गोत्रवेदनीयायूंषि चाक्षिप्तानि, यस्माद् गतिरायुष्कजात्यादिनामगोत्रवेदनीयानामन्यतमाभावेऽपि न सम्भाव्यते, भवधारणकारणत्वात् एषां कर्मणामिति, तथा लिङ्गग्रहणाद् हास्यादिपट्रकग्रहणम्, हास्यादिपट्रकस्य लिङ्गोपग्रहकारकत्वात् , कषायग्रहणाद् वा हास्यादिपरिग्रहः, यस्मादेते नव नोकपायाः कपायसहवर्तित्वादुच्यन्त इति // ननु च कर्मप्रकृतिभेदानां द्वाविंशत्युत्तरशतं प्रकृतिगणनया प्रसिद्धमाम्नाये, न च तत्र लेश्याः परिपठितास्तत् कथम् 1 / उच्यते-वक्ष्यते नामकर्मणि मनःपर्याप्तिर्नाम, पर्याप्तिश्च करणविशेषो येन मनोयोग्यान् पुद्गलानादाय चिन्तयति, ते च मन्यमानाः पुद्गलाः सह करणेन मनोयोग उच्यते, मनोयोगपरिणामश्च लेश्याः, ताश्च नोपात्ताः सूत्रभाष्ययोरिहोत्तरोत्तरभेदत्वादिति / अपरे मन्यन्ते-कर्माष्टकोदयादसिद्धत्व एव लेश्या ग्राह्याः, तदेतत् सर्व सूत्रकारेण लाघवमिच्छता लेशत उपात्तं न साक्षात् // अधुना भाष्यमनुस्रियते-गतिश्चतुर्भेदा नारकादिचतुर्विधपर्यायोत्पादनव्यपदेशकारणसमर्थं यत् कर्म तद् गतिशब्देनोच्यते, तस्य कर्मण उदयादयं निर्वर्तते भावो नारकादिः नरकगतिनामकर्मोदयान्नारक इत्येवं सर्वत्र, आत्मगतिनामकर्मणोश्चाभेदमभिसन्धायाचार्येण प्रेक्षापूर्वकारिणा नारक इति निरदेशि, न तु नरकगतिमात्रमौदयिकस्य जीवस्वतत्त्वप्रतिपादनार्थम्, इतिशब्दः सर्वभेदान्तेष्वियत्ताप्रदर्शनार्थः। कपः-संसारस्तस्यायमुपादानकारणविशेषः कषायः / स चतुर्थी क्रोधादिस्तदुदयात् क्रोध्यादिव्यपदेशः / अत्रापि जीवस्वतत्त्वप्रतिपत्तये क्रोधीति व्यपादेशि न क्रोध इति / लिङ्गं त्रिभेदं-स्त्रीत्वादि, तच्च लीनत्वाल्लिङ्गमुच्यते, यस्मात् पुरुपलिङ्गनिर्वृत्तावतिप्रकटायामपि कदाचित् स्त्रीलिङ्गमुदेति न च स्पष्टं बहिरुपलभ्यते नपुंसकलिङ्गं वा, तथा स्त्रियाः स्वलिङ्गनिर्वृत्तावतिस्पष्टायामेव जातुचित् पुन्नपुंसकलिङ्गोदयः, नपुंसकस्याप्येवं स्वलिङ्गनिर्वृत्तावुत्तरकालभाविनी कदाचित् पुंस्त्रीलिङ्गे भवतो न च निर्वृत्तितो लक्ष्यते, कपिलवदिति सर्वत्र योज्यम् / एतदेव त्रिविधं लिङ्गं वेद उच्यते, यस्य कर्मण उदयात पौंस्नं स्त्रैणं नपुंसकत्वं च भवति तल्लिङ्गम् , अत्राप्यभेदेन निर्देशः पुमान्, स्त्री, नपुंसकमिति। मिथ्यादर्शनमेकभेदं तत्त्वार्थाश्रद्धानलक्षणम् , यस्य कर्मणः उदयान्न किञ्चित् तत्त्वं श्रद्धत्ते तन्मिथ्यादर्शनम् // ननु च अभिगृहीतानभिगृहीतसन्देहतस्त्रिधोक्तम्, उच्यते-सर्वत्राश्रद्धानलक्षणं न भिद्यत इत्येकभेदमुक्तम्, अत्राप्यभेदोपचारात् मिथ्यादृष्टिरिति / अज्ञानमेकभेदं ज्ञानदर्शनावरणसर्वघातिदर्शनमोहनीयोदयादज्ञानमनवबोधस्वभावमेकरूपम्, तथैवाभेदमाधाय मनसि व्यपादिशद् अज्ञानीति / असंयतत्वमेकभेदं सज्ज्वलनवर्जकषायद्वादशकोदयादसंयतत्वमेकरूपम् , अत्राप्यभेदेन निर्देशः पर्यायतश्च असंयतः अविरत इति / असिद्धत्वमेकभेदं वेदनीयायुर्नामगोत्रोदयादसिद्धत्वमेकरूंपम्, तथैवाभेदादसिद्ध इति प्रदर्शितम् / एकभेदमित्यस्य पर्यायान्तरं कथयति पर्यन्ते १'त्रियते' इति ख-पाठः। 2 उक्तमेतत् 113 तमे पृष्ठे /