________________ सूत्रं 22] स्वोपज्ञभाष्य-टीकालङ्कृतम् पश्यन्ति / येषामपि क्षेत्रतस्तुल्योऽवधिविषयस्तेषामप्युपर्युपरि विशुद्धितोऽधिको भवतीति // 21 // ___टी-इन्द्रियाणि श्रोत्रादीनि तेषां विषयः-शब्दादिर्योग्यदेशव्यवस्थितस्तद्ब्रहणप्रवृ. तावुपर्युपर्याहितपाटवा भवन्ति, अवधिविषयेण चोपर्युपरि समधिकाः, अधस्ताद् रत्नप्रभां पृथिवीं पश्यन्ति सौधर्मेशानयोर्देवास्तिर्यगसङ्ख्येयान् द्वीपसागरान्, ऊर्ध्वमास्वभवनस्तूपिकाग्रात सर्व एवोपरि देवाः पश्यन्ति / सनत्कुमारमाहेन्द्रयोरवधिना श रामभामधस्तिर्यग् बहुतरकानसङ्ख्येयान् द्वीपसमुद्रान् / एवं सर्वत्र वक्तव्यमिति / ब्रह्मलान्तकयोर्वालुकाप्रभां पश्यन्ति, शुक्रसहस्रारयोः पङ्कप्रभां, आनतप्राणतयोरारणाच्युतयोश्च धूमप्रभा, अधस्तात्तनमध्यमग्रैवेयकास्तमःप्रमा, उपरितनौवेयकास्तु महातमःप्रभामिति / अनुत्तरविमानपञ्चकनिवासिनस्तु समस्तां लोकनाडी पश्यन्ति लोकमध्यवर्तिनी, न पुनर्लोकमिति / येषामपि देवानां तुल्यविषयमवधिज्ञानमुपयुपरि तेषामप्युपरिष्टाद विशुद्धतरमवसेयमिति // 21 // एते चोपर्युपरि वैमानिकाः सूत्रम्--गतिशरीरपरिग्रहाभिमानतो हीनाः // 4-22 // भा०-गतिविषयेण शरीरमहत्त्वेन महापरिग्रहत्वेनाभिमानेन च उपयुपरि हीनाः / तद्यथा-द्विसागरोपमजयन्यस्थितीनां देवानामासप्तम्यां गतिविषयः गत्यानिमित्त तिर्यगसङ्ख्येयानि योजनकोटीकोटीसहस्राणि, ततः परतो त्तरदेवानां हीन- जघन्यस्थितीनामेकैकहीना भूमयो यावत् तृतीयामिति / गतपू. त्वम् वाश्च गमिष्यन्ति च तृतीयायां देवाः, परतस्तु सत्यपि गतिविषये न गतपूर्वा नापि गमिष्यन्ति / महानुभावक्रियातः औदासीन्याचोपर्युपरि देवा न गतिरतयो भवन्ति // _____टी०-गतिशरीरपरिग्रहाभिमानतोहीनाः, द्वन्द्वात् तृतीयार्थे तसिः / गतिविषयेणेत्यादि भाष्यम् / गतिर्देशान्तरगमनम्, येषां द्वे सागरोपमे जघन्या स्थितिस्ते किल देवाः सप्तमधरां प्रयान्ति, ते च सनत्कुमारकल्पात् प्रभृति लभ्यन्ते, शक्तिमानं चैतद वर्ण्यते, न पुनः कदाचिदगमन् तिर्यगसङ्ख्येयानि योजनकोटीनां कोटीसहस्राणि, ततः परत इत्यादि सागरोपमद्वयादधो जघन्या स्थिति]पां न्यूनतरा न्यूनतमा चेति, ते त्वेकैकहीनां भुवमनुप्राप्नुवन्ति यावत् तृतीया पृथिवी, तां च तृतीयां पूर्वसङ्गतिकाद्यर्थे गता गमिष्यन्ति, परतस्तु सत्यामपि शक्तौ न गतपूर्वा नापि गमिष्यन्ति, औदासीन्यात्-माध्यस्थ्यादुपयुपरि न गतिरतयो देवा जिनाभिवन्दनादीन् मुक्त्वेति // 1 तृतीयेति' इति घ-पाठः।