________________ 348 तत्त्वार्थाधिगमसूत्रम् [ अभ्यायः 5 सूत्रम्-वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य // 5-22 // टी०-यदा तु पृथक कालद्रव्यं धर्मादिभ्यस्तदाऽप्यवश्यं सतोपकालस्योपकारः कारिणा भवितव्यम् / संश्च कालोऽभिमतः स किमुपकार इति तस्य खलु वक्ष्यमाणस्वतत्वमूर्तेः वर्तना परिणाम इत्यादिनाऽविनाभूत लिङ्गमुपदर्श्यते / यच्च प्राङ् नोपोन्यासि सूत्रकारेण कालस्तदस्तिकायत्वप्रतिषेधाय / आह च "तमान्मानुषलोक-व्यापी कालोऽस्ति समय एक इह / एकत्वाच्च स कायो, न भवति कायो हि समुदायः // " स चैकः समयो द्रव्यपर्यायावत्रवृत्तिरेव द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधर्माऽपि स्वरूपानन्त्यभूतक्रमाक्रमभाव्यनाद्यपर्यवसानोऽनन्तसङ्ख्यापरिणामः, अत एव पर्यायप्रवाहव्यापिनमेकमात्मानमातनोति, अतीतानागतवर्तमानावस्थास्वपि कालः काल इत्यविशेषश्रुतेः सर्वदा ध्रौव्यांशावलम्बनात्, सामान्यः परमार्थत्वात सन्नेव न कदाचिदप्यसत्वं भजत इति यद्यर्धत्तीयद्वीपसमुद्रद्वयाक्रान्तक्षेत्रपरिणामस्तिर्यग्मानेन पञ्च चत्वारिंशद्योजनलक्षप्रमाणः (ऊर्ध्वमधश्चाष्टादशयोजनप्रमाणः ) कालो नाम द्रव्य मिति निरूप्यते वर्तनादिलिङ्गसद्भावात्, _ ततः किमिति मनुष्यलोकादपि परतो नाभ्युपेयते, तलिङ्गोपपत्तेः, . इह वर्तनालक्षणः कालः उच्यते, सा चास्ति तत्र वृत्तिः, तथा प्राणानलोकवृत्तिता पाननिमेपोन्मेषायुःप्रमाणादि परत्वापरत्वादिलिङ्गं चेति। अत्रोच्यतेसत्यामपि भावानां वृत्तौ तस्यास्त्वविशेषेण काललिङ्गत्वं नेष्यते, सन्तो हि भावाः स्वयमेवोत्पद्यन्ते व्ययन्त्यवतिष्ठन्ते च, अस्तित्वं च भावानां वस्त्वन्तरापेक्षम्, न च तत्रत्याः प्राणादिवृत्तयः कालापेक्षास्तुल्यजातीयानां सर्वेषां युगपदभवनात्, कालापेक्षा द्यर्थास्तुल्यजातीयानामेकस्मिन् काले भवन्ति, न विजातीयानाम्, ताश्च प्राणादिवृत्तयस्तद्वतां नैकस्मिन काले भवन्त्युपरमन्ति चेति, तस्मान्न कालापेक्षास्ताः, न च परत्वापरत्वे तत्र कालापेक्षे, स्थितिविशेषापेक्षे हि परत्वापरत्वे, पष्टिवर्षा वर्षशतिकः परोऽपरः षष्टिवर्ष इति षष्टिवर्षागां शतं वर्षाणामिति स्थितिरेषा, सा च सत्त्वापेक्षास्तित्वादेव, भावानामस्तित्वं चानपेक्षमित्युक्तम् // नन्वेवमेव मनुष्यलोकेऽपि कालनिरपेक्षा वर्तनादयो भविष्यन्ति, किं कालकल्पनयेति चेत् , उच्यते-यदि निर्वत कारणं परिणामकारणं वा कालोऽकलयिष्यताऽभविष्यदेतदेवम् अपेक्षाकारणं हि सः / न ह्यसावधिष्ठाय स्वातन्येण कुलालवत् करोति। न च मृत्तिकावत् परिणामिकारणं, किन्तु सम्भवतां स्वयमेवार्थानामस्मिन् काले भवितव्यम्, नान्यदेति अपेक्षाकारणं धर्मद्रव्यमिव गता कालस्य चिह्नान्तर्गतो भागो नास्तिक-ख. 1 नोपन्यासि' इति क-ख-पाठः। २'पर्यवसाने' इति ग-पाठः। योः / 4' वियत्यव.' इति ग-पाठः /