________________ सूत्र 22 ]. स्वोपनमाष्य-टीकालङ्कृतम् 349 विति न दोषः, सुखादिदृष्टान्ताश्च पूर्ववद् वाच्याः // अत्र च केचिदाचक्षते-विरोधासम्भवाद् वर्तनादिपदत्रयसमासः, अपरे पुनरसमस्तान्येवाधीयते, परत्वापरत्वयोः पुनः समास एव, अन्योन्यापेक्षत्वात्, वर्तनाग्रहणमादौ पूर्वापरनिरपेक्षप्रत्ययाभिधानहेतुत्वान्निदर्शनार्थत्वात् / तदनु परिणामग्रहणं, क्रियाग्रहणं वर्तनादनिां तज्जातीयत्वात् / तदनु परत्वापरत्वे विशिष्टलिङ्गत्वात् प्रशंसाक्षेत्रकृतव्युदासार्थम् / उपकारानुकर्षणार्थश्वशब्दः // भा०-तद्यथा-सर्वभावानां वर्तना कालाश्रया वृत्तिः / वर्तना उत्पत्तिः, स्थितिरथ गतिः प्रथमसमयाश्रयेत्यर्थः // ०-तद्यथा-सर्वभावानामित्यादि भाष्यम् / तद्यथेत्यनेन वर्तनास्वरूपम् वर्तनादीनां सकलभावव्यापितां दर्शयति / तत्र वर्तनैव तावद् भाव्यते 'वर्तना कालाश्रया वृत्तिरिति, यतेन्ते स्वयमेव पदाथोस्तेषां वतेमानानां प्रयोजिका कालाश्रया वृत्तिः, वय॑न्ते यया सा वर्तना / ‘ण्यासश्रन्थो युच्' (पा० अ० 3, पा० 3, सू० 107) / अथवा सैव कालाश्रया वृत्तिर्वर्तनशीलेति, 'अनुदात्तेतश्च हलादेः' (पा० अ० 3, पा०.२, मू० 149 ) इति युन् / वृत्तिर्वर्तनं तथाशीलतेति, सा च वर्तना प्रतिद्रव्यपर्यायमन्तीतैकसमयस्वसत्तानुभूतिलक्षणा उत्पाद्यस्येतरस्य वा भावस्य प्रथमसमयसंव्यवहारोऽनुमानगम्यस्तण्डुलादिविकारवदग्न्युदकसंयोगनिमित्ता विक्रिया प्राथमिक्यतीता. नागतविशेषविनिर्मुक्ता, वर्तते पाकः अस्य वा भावाऽनुसमयस्थितेतना प्रतीता, सा चातिनिपुणपुरुषबुद्धिगम्या / यथाऽऽह "बिसस्य बाला इव दह्यमाना, न लक्ष्यते विकृतिरिहानिपाते / तां वेदयन्ते मितसर्वभावाः, सूक्ष्मो हि कालोऽनुमितेन गम्यः // " . . ननु च सवितुरुदयेन वर्तमानेनोपलक्षिता भावानां प्रतिविशिष्टा क्रियैव वर्तते इत्यावेद्यते कोऽन्यस्तव्यतिरिक्तः काल इति, तथा ह्यः श्व इत्यतीतानागतोदयलक्षणा बध्नमण्डलभ्रमणानुमेया वस्तुक्रियैवोच्यतेऽवृतद् वर्तिष्यत इति / यथा चोक्तम्-नृलोके, तत्कृतः कालो विभागः (अ० 4, सू० 14, 15) इति, अत्रोच्यते, प्रागुत्पतद्भिरेवास्माभिरिदमुक्तम्-धर्मादिद्रष्यपरिणतिमात्रं कालस्तदन्यो वा, तत्र प्रथमपक्षे सिद्धसाध्यता, तदन्यपक्षेऽपि न दोपः, आ. दित्यगत्युपलक्षिता नैपा वस्तुक्रिया वर्तत इति, तद्गतावपि सद्भावाद्, वर्तते व्रज्या सवितुर्यथा आकाशप्रदेशनिमित्तेति चेत् , तदप्यसमञ्जसम्, तां प्रत्यधिकरणभावात् स्थालीवत्, कथं पुन 1 यदि च तिर्यग्लोकवृत्तिपदार्थानां चन्द्रसूर्यादिगतिक्रिययोपकृतिः तदा स्पष्ट एवोपकारस्तस्य तिर्य लोके, सुरलोकादौ न सूर्यादेगेतिक्रिया न च तया तस्योपकार इति स्पष्ट एवान्यत्र तदनुपकारः, प्रागुक्तमपि च यदुतात्रत्येनैव कालेनान्यत्र व्यवहारः, परमनिरुद्धः समयोऽपि सूर्यादिकियाव्यङ्ग्यदिनादेः परमो लव एव, सूर्यादिगतावपि प्राचीना तद्वतिहेतुरेव, एवंच तिर्यग्लोक एव तस्य वृत्तियुक्ता, कथमन्यथा लोकालोकयोर्वर्तनादिसद्भावात् न स सर्वत्र, एवं च पर्शयताऽपि तस्य युज्यत एव / 2 प्रथमसमाश्रयेत्यर्थः' इति क-ख-पाठः / 3 ‘ण्याश्रयो युच्' इति ग-पाठः। 4 'वेद्यन्ते ' इति ग-पाठः /