________________ स्त्रं 21] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 347 . टी०-परस्परशब्दः कर्मव्यतिहारविषयः / अन्योन्योपग्रहो जीवानामुपकारः। नन्वपरस्परेति भवितव्यमित्यत्र परस्परा क्रिया सातत्येनेत्यत्रैके व्याचक्षते, वर्णलोपं कृत्वा निरदिक्षदाचार्यः परम्परोपग्रह इति कात्यायनवचनाद् वा 'इतरेतरान्योन्योपपदाच ( पा० अ० 1, पा० 3, मू० 16 ) इत्यत्रोक्तं 'परस्परोपपदाचेति ( वक्तव्यं ) ( वार्तिके 900) परस्परस्य व्यतिलुनन्ति / हिताहितोपदेशाभ्यामिति / हितमायत्यां वर्तमाने च यत् क्षम युक्तं न्याय्यं वा, तद्विपरीतमहितम्, हितप्रतिपादनेनाहितप्रतिषेधेन चोपग्रहं कुर्वन्ति, पुनरुपग्रहवचनमाभिप्रायिकं दर्शयति, जीवाः परस्परहिताहितोपदेशदायित्वेनानुगृह्णन्ति न त्वेवं पुद्गलाः / अथवा सुखादीनामेकैकोऽप्यनुग्राहको जन्तोर्भवति समुपजातः, इह तु पुनरुपग्रहमाणोपग्राहकयोः परस्परेण स्त्रीपुंसवदनुग्रहे योगपद्यार्थ पुनरुपग्रहवचनं प्रतिपत्तव्यम्, सर्वदैव द्विप्रभृतीनामुपकारो मैककानाम्, उपसर्जनं चोपग्रहः पूर्वसूत्रे, इह तु स्वतन्त्रः, जीवानामुपदेशस्य भूयस्त्वेनोपकारकत्वाद ग्रहणम्, न तथा प्राणिनो वित्तादिभिरुपकुर्वन्ति यथोपदेशेनेति, अहितोपदेशोऽहितानुष्ठानं वा कथमुपकारः, न, उपकारवचनस्य निमित्तार्थत्वात्, अन्यथा हीष्टोपग्रह एवोपकारः स्यात्, नानिष्टोपग्रह इत्यव्यापिता भवेत् // ननु जीवानामुक्तं लक्षणमुपयोग इति किं पुनरारम्भेण ? नैतत्, तदस्त्यन्तरङ्ग लक्षणमिदं तु बहिरङ्गम्, एवं वर्हि धर्मादित्रयस्य लक्षणं नास्ति / अत्रोच्यते-गतिस्थित्यवगाहानां स्वाभाव्याद, यो हि यत्रासाधारणो धर्मः स एव तस्य लक्षणम्, इतिशब्दोऽधिकारपरिसमाप्त्यर्थ इति // 21 // भा०-अत्राह-अथ कालस्योपकारः क इति ? / अत्रोच्यते टी०–अत्राहेत्यादिना सम्बध्नाति-अत्रेति पश्चास्तिकायपरिसमाप्तिप्रस्तावे पर आहअथ कालस्योपकारः क इति // ननु च पूर्वोपन्यस्तेषु धर्मादिषु द्रव्येषूपकारविषयः प्रश्नो घटमानः कालद्रव्यं तु नैवोपन्यस्तम,अतः कथं तत्कृतोपकारविषयः प्रश्नः सङ्गच्छेत ? / सत्यम्, नोक्तं कालद्रव्यं, किन्तु कालश्चेत्येके (अ० 5, सू० 38 ) इति वक्ष्यत्येकीयमतेन स कदाचिद् धर्मास्तिकायादिद्रव्यपञ्चकान्तर्भूतस्तत्परिणामत्वात्, कदाचित् पदार्थान्तरं धर्मादिवत् , सर्वथा लक्षणं वक्तव्यमेतच्चेतसि संनिवेश्य प्रश्नयति-अथ कालस्योपकारः क इति / असाधारणलक्षणविषयः प्रश्नः / कथं पुनधेमोदिपरिणाममात्रं काल इति चेत्. यतस्तद्धर्मविशेषा एवातीतानागतवर्तमाना आख्यातशब्दवाच्याः, ते च बुद्धयर्थशब्दास्त्रयः, सर्व च वस्त्वर्थाभिधानप्रत्ययसगृहीतं. तुल्यव्यपदेशत्वात् शब्दार्थबुद्धीनाम्, तत्रार्थलक्षणः कालोऽर्थवृत्तिभिरेवावधियते इत्यत्रोच्यत इत्याह // 1. अन्यस्योपग्रहः' इति ग-पाठः / 2 एकेन जीवेन द्वितीयस्य तेन तृतीयस्येत्येवं परम्परार्थे परस्परशब्दः, यथा च धर्मादीनां स्वभावेनैवोपकर्तृता नैवमेषां, किन्तु अनुग्रहधियैव, यद्वा इन्द्रियादिकार्याण्याश्रित्य परस्परेषामुपग्राहकता, तच्छक्तीनां कार्यद्वारावस्थितेः। ३'धर्मादिद्रव्येषु' इति क-पाठः।