________________ 346 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 टी-कर्मण इत्यादि / यस्मात् सकलमेव ज्ञानावरणादि कर्म पुद्गलात्मकम्-अनन्तप्रदेशात्मकस्कन्धविकारः, कर्मनिमित्ता च तेषां स्थितिस्तद्वारेण जीवितोपग्राहिणः, त एव च कर्मपुद्गलाः क्षीयमाणा मरणोपग्राहिणः सम्पद्यन्त इति, तस्मात् सुष्टुच्यते-तेषामपि .. जीवितमरणोपग्रहः पुद्गलानामुपकारः / आहारश्च विविध पुद्गलेषु सर्वोपकारिता इत्यादि / समुच्चयार्थश्वशब्दः, ओजोलोमप्रक्षेपलक्षणस्त्रिप्रकार आहारो __ऽभ्यवहरणम् , तत्रीजआहारः सर्वप्रदेशैरात्मनः सर्वस्यापयोप्तकावस्थायां जन्मकाले घृतमध्यप्रक्षिप्तापूपवत्, पर्याप्तकोवस्थायां तु लोमाहारस्त्वगिन्द्रियग्रहणलक्षणः, प्रक्षेपाहारस्तु कावलिकः, सोऽपि पर्याप्तकानामेव पृथिवीकायायेकेन्द्रियनारकदेववर्जानामसुमताम्, सर्वेषामित्यनेन संसारिणः परिगृह्यन्ते // ननु संसारिणोऽपि केचिदन्तर्गतावनाहारकाः, केवलिनस्तु समुद्घातकाले शैलेश्यवस्थायां चेति, अतः कथं सर्वेषामुपकुरुत इत्युच्यते ? बाहुल्यमङ्गीकृत्येदमुक्तमल्पकालत्वाच नापेक्षितं भाष्यकारेण / किं कारणमेतदेवमिति प्रश्नयति, शरीरेत्यादिनोपपादयति / यस्मादाहाराधीनाः शरीरस्य स्थित्यादयोऽनपवायुषाम् , आहारश्च पुद्गलविकारः, ततः पौगलिकत्वादुपकुरुते, तत्र स्थितिः सन्धारणमन्यथा नातिछेत, उपचयः परिपोषो मांसमजादीनाम्, बलं शक्तिः, प्राणः सामर्थ्यम्, वृद्धिराशेहपरि णाहलक्षणा, प्रीतिश्चित्तधर्मः परितोषरूपः, एवमनेकप्रयोजननिवर्तनसामर्थ्यादाहार उपकारक इति // 20 // भा०-अत्राह-गृह्णीमस्तावद् धर्माधर्माकाशपुद्गलजीवद्रव्याणामुपकुर्वन्तीति / अथ जीवानां क उपकार इति ? / अत्रोच्यते टी०-अत्राहेत्यादिसम्बन्धग्रन्थः / सर्वैर्धर्मादिभिरुपकृतं निमित्तव्यापारविशेषेण जीवानाम्, अथात्मानः किमन्येषामात्मनामेवोपकुर्वन्तीत्युपकारं जीवसम्बन्धिनं पृच्छति / अथवा धर्माधर्माकाशपुद्गलानां परानुग्रहः सान्ततिक उक्तः, किमेवमात्मनामप्युतान्यो विधिरिति प्रश्नयति / तत्र जीवद्रव्याणामिति / जीवानां सर्वे धर्मादय उपकुर्वन्ति, धर्माधर्माकाशाः पुद्गलद्रव्याणामुपकारकाः, आकाशं धर्माधर्मपुद्गलानामुपकारकम्, इत्थमेतेऽनुग्रहकारिणः प्रसिद्धा धर्मादय इति बुद्धयामहे / अथ जीवानामुपकारः क इत्यनवबोधात् प्रनिते अत्रोच्यते इत्याह / सूत्रम्-परस्परोपग्रहो जीवानाम् // 5-21 // जीवोपकारः भा०-परस्परस्य हिताहितोपदेशाभ्यामुपग्रहो जीवाना मिति // 21 // १जन्मशब्देन नात्र प्रसवः, किन्तु गर्भावतारः। 2 शरीरपर्यायैव पर्याप्तका ग्राह्याः, अन्यथा अपर्याप्तानी लोमाहारस्याप्यभावसंभवात् / 3 अपवर्तनीयेतरायुष्मतामित्यर्थः, अत एव शरीरेत्यादिहेतुः संगतः / 'ननु च संसा० ' इति ग-पाठः। 5 ' नावतिष्ठते ' इति क-ख-पाठः /