________________ 345 सूत्र 20] स्वोपज्ञभाष्य-टीकालङ्कृतम् सगृहीतकर्मणामुपक्रमाभावाज्जीवितसंवर्तनाभाव इत्यर्थः / विषशस्त्राग्निमन्त्रप्रहरणादयो मरगस्य-जीवितोच्छेदलक्षणस्योपकारकाः पूर्वोपात्तायुषश्चापवर्तनकारिणः, कर्म हि पौद्गलिकमिष्टं भेत्तुं बहिः पौद्गलं (पुद्गलैः 1 ) शक्यम् / आह च “सोपक्रममायुष्कं, वेदनयाऽऽर्तस्य मूर्च्छतो जन्तोः।। वन्धप्रायोग्याभ्यां, विगच्छति स्नेहरौक्ष्याभ्याम् // १॥–आर्या निरुपक्रमं तु न तथा-ऽऽयुष्कं दृढसंहितं यदिष्टं तत् / नन्वग्न्याद्यैरनुप-क्रम्यं कंकटुकमपरान्नम् // 2 // आयुष्कस्यावयवा, बन्धनमुक्ता जटन्ति ते तसात् / आर्द्राद् वस्त्राद् यद्वत् , प्रशोष्यमाणाजलावयवाः // 3 // प्राणाहारनिरोधा-ध्यवसाननिमित्तवेदनाघाताः / स्पशाश्वायुभेदे, सप्तते हेतवः प्रोक्ताः // 4 // " भा०-अत्राह-उपपन्नं तावदेतत् सोपक्रमाणामपवर्तनीयोयुषाम् / अथानपवायुषां कथमिति ? / अत्रोच्यते टी-अत्राहेत्यादिना ग्रन्थेनाशङ्कते, सोपक्रमायुषामनशनरोगादिवाधाभिरुपक्षीणायुषामपवर्तनीयायुषां च भृगुपतनोद्वन्धनादिभिरपवर्तमानायुषामुपकुर्वन्तु नाम पुद्गलाः, ये पुनरनपवर्तनीयायुषो भवन्त्यौपपातिकचरमदेहोत्तमपुरुषासङ्ख्येयवर्षायुषस्तेषां कथं जीवितमरणोपग्रह इत्याक्षिप्त अत्रोच्यत इत्याह भा०–तेषामपि जीवितमरणोपग्रहः पुद्गलानामुपकारः / कथमिति चेत्, तदुच्यते॥ टी–तेषामपीत्यादि / तेषामप्यनपवर्तनीयायुषां जीवितोपग्रहो मरणोपग्रहश्च पुद्गलजालायत्त एव, पुद्गलकृत एवोपकार इतियावत, कथमिति चेत्, आशङ्कते, केन प्रकारेगानपवायुषामुपकुर्वन्ति पुद्गलाः, एवं मन्यते-न तेषामायुर्वर्धयितुं शक्यम्, न हासयितुम् , अतः कमुपकारं पुद्गलाः कुर्युरिति तदुच्यते इत्याह. भा०-कर्मणः स्थितिक्षयाभ्याम् / कर्म हि पौद्गलमिति / आहारश्च त्रिविधः सर्वेषामेवोपकुरुते / किं कारणम् / शरीरस्थित्युपचयबलवृद्धिप्रीत्यर्थ त्याहार इति // 20 // 1 अपवर्तनीयायुषां निरुपक्रमत्वाभावात् सोपक्रमेत्यादि / 2 आयुषः परानुपग्राह्यत्वात् स्वभावतस्तेषां मरणं, म जातु तेषां पुद्गलोपग्रहो नामेति शङ्कते / 3 शीघ्रमायुःक्षयप्रतिपादनाय मेद इत्याशयः। 4 कर्मशब्देनायुःकमेव प्राद्यं, प्रकरणात् जीवितमरणयोः, अनपवर्तनीयायुषामपि नायुरन्तरेण जीवितं तत्क्षयमन्तरा च मरणमिति युतमुकं तेषामपीत्यादि।