________________ 344 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 परिसमाप्तौ तदसम्भवान्मरणवचनम्, ग्रंकृतमुपग्रहवचनमनादृत्य यत् पुनरुपग्रहग्रहणं तद् विशिष्टार्थप्रतिपत्त्यर्थ, शरीराद्याकारेण साक्षात् कुर्वन्त्युपकारमात्मनः पुद्गलाः, अत्र पुनरात्मनः सुखाद्याकारेण परिणममानस्योपग्रहे वर्तन्ते पुद्गला इति / __ भा०-सुखोपग्रहो दुःखोपग्रहो जीवितोपग्रहश्च मरणोपग्रहश्चेति पुद्गलानामुपकारः॥ टी०-सुखोपग्रह इत्यादि भाष्यम् / बाह्यद्रव्यसम्बन्धापेक्षसद्वेद्योदयात् संसार्यात्मनः प्रसादपरिणामः सुखम्, इष्टदारापत्यस्रगनुलेपनान्नपानादिद्रव्योपजनितमिति विस्तरः, तदेव च सुखमुपग्रहोऽनुग्रहः पुद्गलानां निमित्ततया परिणतावात्मनः, एवं दुःखादिप्वपि योजनीयम्, असद्वद्योदयादात्मपरिणामो बाह्यद्रव्यापेक्षः सङ्क्लेशप्रायो दुःखं, भवस्थितिनिमित्तायुर्द्रव्यसम्बन्धमाजः पुरुषस्य प्राणापानलक्षणक्रियाविशेषाव्युपरमो जीवितं, तदशेषोपरतिमरणम्। कथं मरणमात्मोपग्रह इति चेत्, निर्विष्णस्य पुरुषस्य तत्प्रियत्वाद् विषादिद्रव्यसम्बन्धे सत्यायुपो यौगपद्येनोपभोगोदयात् कण्टकवेदनावत् // भा०-तद्यथा-इष्टाः स्पर्शरसगन्धवर्णशब्दाः सुखस्योपकाराः / अनिष्टा दुःखस्य / स्थानाच्छादनानुलेपनभोजनादीनि विधिप्रयुक्तानि जीवितस्यानपवर्तन चायुष्कम्य / विषशस्त्राग्यादीनि मरणस्य, अपवर्तनं चायुष्कस्य // टी०-तद्यथेत्यादिना प्रत्येकमुदाहरणं सुखादीनां दर्शयति-स्पर्शादयः केचित कदाचिदाशयवशाज्जन्तूनां वल्लभाः सन्तः सुखमात्मपरिणामस्वभावमुपकुर्वन्ति / कर्मणि षष्ठी द्रष्टव्या / त एव चानिष्टा द्वेष्याः सन्तः स्वाशयोत्प्रेक्षया दुःखस्योपकुर्वन्ति / तथा चाह "तानेवार्थान द्विषतस्तानेवार्थान् प्रलीयमानस्य / निश्चयतोऽस्यानिष्टं न विद्यते किञ्चिदिष्टं वा ।।"-प्रशम० श्लो० 52 ___ अतः स्वचेतीविकल्पापेक्षमिष्टत्वमनिष्टत्वं वा स्पर्शादीनाम्, तथा स्नानादयो विधिप्रयोगाज्जीवितस्य प्राणधारणलक्षणस्योपकारकाः, विधिप्रयोगो देशकालमात्रासात्म्यद्रव्यगुरुलाघवस्ववलापेक्षः, जन्मान्तरप्रतिवद्धस्य चायुषोऽनपवर्तनम्, अपवर्तनं तु दीर्घस्यायुषोऽध्यवसा. यादिविशेषसाचिव्यादल्पतापादनं जीवितसंवर्तनमित्यर्थः / अनुग्राहकहेतुसन्निधानात् तु तावन्मात्रतैव, सुबद्धत्वात्, पर्वनश्लेषवत्, अनपवर्तनमिति, बद्धस्पृष्टनिहितनिकाचितचतुष्करण 1 'मरगं' इति क-पाठः। 2 विप्रियस्य दुःखमरणकारितया पुद्गलानामुपयोजनमध्यक्षसिद्धमेव, स्वरूपख्यापनमेतत्, तेन नैतत्कार्यता। 3 गतिस्थित्युपग्रहावित्यत्र समस्तत्वादुपग्रहस्य न तस्यानुवृत्तिः सन्नियोगेतिन्यायात्, उपकार शब्दस्त्वत्रापि पुदला. मामुपकार इति अनुवर्त्यत एव, तत आवश्यक उपग्रग्रहण, अन्यच्च सुखादीनि न पुद्गलरूपाणि किन्तु तजन्यानीति युक्तमुपग्रह इति, भावि भाष्यमपि तथैव / 4 तस्यापि पौलिकत्वात् तद्धारणावधिकलादेव जीषितस्येति / 5 पवनेन-वायुना शुष्यमाणः श्लेषः पवनश्लेषः, स हि गाढतमो न च शक्यते उद्वेष्टयितुम् /