________________ सूत्र 20 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 343 अतो व्यवच्छिनत्ति नान्य इति / यत् तु तेषां स्वनीडाभिसर्पणं कृमिपिपीलिकादीनां तण्डुलकणश्यामाकबीजादिसंग्रहणवन्मनोव्यापारमन्तरेणैव तदवग्रहपाटवात्, तादृशी लब्धिरेव सा, न पुनरीहादिज्ञानभेदविचारयोग्यो द्वीन्द्रियादिः।। कथं पुनरात्मा शरीरादियोग्यान पुद्गलानादत्ते कथं वा परस्परेण ते संहतास्तिष्ठन्ति न विशीर्यन्ते इत्याक्षिप्ते आह भा०-वक्ष्यते हि-सकषायत्वाजीवः कर्मणो योग्यान पुद्गलानादत्त इति (अ०८, सू०२) // 19 // किश्चान्यत् टी०--वक्ष्यते हीत्यादि। यस्मादभिधास्यतेऽष्टमेऽध्याये बन्धलक्षणं सकषायत्वाजीव: कर्मणो योग्यान पुद्गलानादत्त इति, कषायाः क्रोधादयः सह तैः सकषायस्तस्मात् प्रत्ययात् कषायाख्यादात्मा ज्ञानावरणादिकर्मयोग्यान् सर्वात्मप्रदेशै!कर्मयोग्यांश्च पुद्गलानादत्ते, आह च " ऊष्मगुणः सन्दीपः, स्नेहं वा यथा समादत्ते / "आदाय शरीरतया, परिणमयति चापि ते स्नेहम् / / तद्वद् रागादिगुणः, स्वयोगवात्मदीप आदत्ते / स्कन्धानादाय तथा, परिणमयति ताँश्च कमेतया // " तस्मात् शरीराधाकारेणोपकारिणः प्राणिनां पुद्गला एव, न प्रधान विज्ञानस्वभावेश्वरनियतिहठपुरुषकालादयः शरीराद्याकारपरिणतिभाजो, नियुक्तिकत्वादिति // 19 // . एष तावत् पुद्गलकृत उपकारो जीवानां शरीरादि, अधुना निमित्तमात्रताप्रदर्शनार्थ सम्बनाति-किश्चान्यदिति, पूर्वोपकारापेक्षमुच्यते / आकारान्तरेणापि पुद्गलानामुपकारकत्वं निमित्तमात्रतयेत्याह सूत्रम्-सुखदुःखजीवितमरणोपग्रहाश्च // 5-20 // टी-चशब्देन पुद्गलानामुपकार इत्यनुकृष्यते / शरीरादिसूत्रविन्यासं कृत्वा प्राक् किमर्थमिदं विभागेनाधुना भण्यते / उच्यते-सुखादीनामुर्देयापेक्षत्वात् प्राच्यानां ग्रेहर्णमात्रविषयत्वाद् विभक्तिरिति, द्वन्द्वपूर्वः समानाधिकरणस्तत्पुरुषः, सुखग्रहणं प्राक तदर्थ चेष्टादर्शनात्, तदनन्तरं दुःखवचनं तत्प्रतिपक्षत्वात्, जीवतस्तदुभयदर्शनात् तदन्ते जीवितग्रहणं, कर्मोपभोग१'संग्रहं तन्मनो' इति क-पाठः। 2 विशिष्टमनोव्यापारमपेक्ष्यैतत्, हेतुवादसंज्ञा तु तेषामस्त्येव तत्प्रयोनिका / ईहादि चात्र संप्रधारणरूपं दीर्घकालीनस्मरणादिरूपं वा, प्राप्तेन्द्रियोहादेस्तु तेषां सद्भावोऽविरुद्धः / 3 सिद्धालयेऽपि पुद्गलसद्भावात् किं न सिद्धानां शरीरादितया पुद्गलोपकार इत्याह४ सातवेदनीयोदयादौ अपेक्षाकारणत्वात् इति भावः / शरीरादौ तु परिणामिकारणं पुरला इति प्रणेत्यादि / 6 "ग्रहणविषयत्वाद् इति क-ख-पाठः।