________________ 342 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 छद्मस्थानां श्रुतज्ञानावरणक्षयोपशम(जन)नाय करणं तदवष्टम्भजनितं च गुणदोषविचारणात्मकं सम्प्रधारणं संज्ञाज्ञानं धारणाज्ञानं तद्भावमनः // तथा चाह "चित्तं चेतो योगोऽध्यवसानं चेतना परीणामः / भावो मन इति चैते छुपयोगार्था जगति शब्दाः // " अत्र त्येवंविधभावमनोनिमित्तेन पौद्गलिफेन सर्वात्मप्रदेशवर्तिना मनसाऽधिकारः, कोष्टयो वायुरुच्यासलक्षणः प्राणस्तद्विधपरिणामापत्तेः, तथा बाह्यो वायुरभ्यन्तरीक्रियमाणोऽपानसंज्ञितः, एतावप्यात्मनोऽनुग्राहको, रूपिद्रव्यपरिणामात् प्रतिघातदर्शनाद् द्वारानुविधायित्वाञ्च मूर्तिमत्ताऽवसेया // भा०-तत्र शरीराणि यथोक्तानि (अ० 2, सू० 37 ) / प्राणापानौ च नामकर्मणि व्याख्याती (अ०८, सू० 12) // टी-द्वितीयाध्याये शरीराण्यौदारिकादीनि यथा व्याख्यातानि तथैवेह प्रतिपत्तव्यानि, प्राणापानावष्टमेऽध्याये नामकमणि गतिजात्यादिमूत्रे पञ्चप्रकारपर्याप्तिकर्मणि प्रा. णापानक्रियायोग्यद्रव्यग्रहणशक्तिः निर्वर्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिरित्यत्र भाष्ये व्याख्यास्यते, कथं तर्हि व्याख्याता आशंसायामर्थे भूतवद् वर्तमानवच्च प्रत्यया भवन्ति, उपाध्यायवेद आगमिष्यति तद्याकरणमधीतमेवमिहापि नामकर्माशंसितमित्यदोषः // ___ भा०-दीन्द्रियादयो जिद्वेन्द्रियसंयोगाद् भाषात्वेन गृह्णन्ति नान्ये, संज्ञिनश्च मनस्त्वेन गृह्णन्ति, नान्य इति / टी-द्वीन्द्रियादि भाष्यम् / द्वित्रिचतुःपञ्चेन्द्रियाः पर्याप्तरसनेन्द्रियसम्बन्धतो भा. षात्वेनेति भापापरिणामयोग्याननन्तप्रदेशान् स्कन्धानाददते काययोगेन, भाषापर्याप्तिकरणेन निसृजति, अनेनैतद् दर्शयति-यत्रैव जिद्धेन्द्रिययोगस्तत्रैव भाषापर्याप्तिः जिह्वाश्रयत्वाद,अतोऽन्ये व्यवच्छिद्यन्ते पृथिव्यादयो वायुपर्यन्ता एकेन्द्रियाः, तेषां रसनेन्द्रिययोगाभावादजिहत्वाभापाभावः. दीन्द्रियादयश्च तद्युक्ताः सन्तः स्वभाषात्वेन तान् पुद्गलान् परिणमय्यायम्लेच्छवत् प्रतिनियता एव भाषाः प्रयुञ्जते, संज्ञिनश्चेत्यादि गुणदोषविचारणात्मिका सम्प्रधारणा संज्ञा तद्योगात् संज्ञिनः, चशब्द एवार्थे, त एव मनःपरिणामेन मनोवर्गणायोग्यान् स्कन्धाननन्तान मन्तुकामाः सर्वाङ्गीणानाददते, ततस्तद्वलेन पुनर्गुणदोषविचारणाभावेन परिणमन्ते, ये त्वेवंविधसंज्ञा भाजो न भवन्त्ये केन्द्रियादयोऽसंज्ञिपञ्चेन्द्रियान्तास्ते नैव मन्यन्ते,मनःपर्याप्तिकरणाभावात, 1 'धारणसंज्ञानं' इति क-ख-पाठः। 2 प्राणापानरोधेन मरणादिभावात्, अत एव च कायोत्सर्गेऽपि नोच्छ्वासादिरोधानुज्ञा, आकारता च तत्र तेषाम् / 3 सूत्रावतरणेष्वने के षु वक्ष्यते इत्यादिकथनं मूलसूत्रविषयतयोक्तं, अत्र तु व्याख्यातावितिकथनं तयोरसिद्धर्ता कथयति, नहि क्वापि कर्मण्येते श्रूयेते, ततः पारमार्षसिद्धं विषयं मनसिकृत्याहैतत् / 4 नापर्याप्ते वाग्योग इति पर्याप्तेति, तथा च पर्याप्तस्य यद् रसनेन्द्रियं तस्य संबन्धत इत्यर्थः /