________________ सूत्र 34] स्वोपज्ञभाष्य-टीकालङ्कृतम् इति च अनेकधर्मकदम्बकोपेतस्य वस्तुन एकेन धर्मेणोन्नयनमवधारणात्मकं नित्य एवानित्य एवेत्येवंविधं नयव्यपदेशमास्कन्दति, स चाध्यवसायविशेष इति / निगम्यन्ते-परिच्छिधन्ते इति निगमाः-लौकिका अर्थाः, तेषु निगमेषु भवो योऽध्यवसायो ज्ञानाख्यः स नैगमस्य निर्देशः ... नैगमः / स च सामान्येनापि व्यवहरति सामान्यबुद्धिहेतुना सामान्यया वचनहेतुना च, अत्यन्तं भेदेभ्योऽन्यत्वरूपेण सत्तामात्रेण, तथा विशेषेणापि विशेषबुद्धिहेतुना विशेषवचनहेतुना च अत्यन्तं सामान्यादन्यत्वरूपेण व्यवहरति परमाणुनिष्ठितेन, तथा सामान्य विशेषेणापि गवादिना सर्वगोपिण्डेष्वनुवृत्त्यात्मकेन अश्वादिव्याच्यात्मकेन च व्यवहरति, यथा लोको व्यवहरति तथाऽनेन व्यवहर्तव्यमिति, लोकश्वोपदिष्टः प्रकारैः समस्तैर्व्यवहरति / प्रवचने च वसतिप्रस्थकनिदर्शनद्वयेन विभावितः काणभुजराद्धान्तहेतुरव गन्तव्यः / अभेदेन सङ्ग्रहात् सर्वस्य सङ्ग्रह्णाति इति सङ्ग्रहः / सझहस्य यदि भवनाभिसम्बद्धस्यैव भावस्य भावत्वमभ्युपगम्यते ततः परिसमा. स्वरूपम् पितात्मस्वरूपित्वाद् भावस्य भ्रान्तिसमुपनिवन्धनघटादिविकल्पप्रकसनानर्थक्यम् , यदि घटादि वस्त्वपि भवनप्रवृत्तितन्त्रमेवेत्येवं सति भाव एव, तदनीन्तरत्वात् तत् स्वात्मवत् , भवनार्थान्तरत्वे वा व्योमोत्पलादिवदसत्त्वं विकल्पानां रासभविषाणादिसत्त्वं वा घटादिवद् भवनार्थान्तरत्वात् , एतद्दर्शनपुरस्सरा एव च सर्वनित्यत्वैकत्वभारणमात्रत्वादिवादाः कालपुरुषस्वभावदैवादयश्चेति भावः / निश्चयासद्गृहीतानां विधिपूर्वक मवहरणं व्यवहारः। यदि घटादिभेदश्रुत्या स्वसामान्यानुवद्धस्य वारस्य व्याख्या निरस्तसामान्यान्तरसम्बन्धस्य श्रूयमाणत्वानुगुणमेव ग्रहणं न स्यात् , किन्तु सर्वव्यपदेशविशेषाभिव्यङ्गयो भाव एव तेन तेन रूपेणाभिव्यज्यते, ततो घटाधन्य. तरभेदश्रुतौ सर्वरूपभेदभावप्रतीतिप्रसङ्गस्ततश्च घटपटोदकादिरूपव्यतिकरभावानिश्चयाभावप्रसङ्गः, उपदेशक्रियोपभोगापवर्गव्यवस्थादीनां चाभावात् सर्वसंव्यवहारोच्छेदः, सर्वविशेषध्याकरणे च निर्निबन्धनभवनाभावाद् भावाभाव एव, अविशेषत्वाभेदत्वानिरूप्यत्वादितमश्च नेवासो भावः खरविषाणादिवत् , तस्माद् व्यवहारोपनिपतितसामान्योपनिवन्धनं तु यदेव यद् यदा द्रव्यं पृथिवीघटादि व्यपदिश्यते तदेव तत् तदा त्रैलोक्याविभिन्नरूपं सततमवस्थितापरित्यक्तात्मसामान्यं महासामान्यप्रतिक्षेपेण संव्यवहारमार्गमास्कन्दतीति / एवंविधवस्तूपनिवन्धनैव च वर्णाश्रमप्रतिनियतरूपा यमनियमगम्यागम्यभक्ष्याभक्ष्यादिव्यवस्था, कुम्भकारादेश्व मृदानयनावमर्दनशिवकस्थासकादिकरणप्रवृत्ती वेतनकादिदानस्य साफल्यम् , अव्यवहार्यत्वाच्च शेपमवस्तु, व्योमेन्दीवरादिवदिति / ऋजु-सममकुटिलं सूत्रयति ऋजु ऋजसत्रस्य वा श्रुतम् आगमोऽस्येति सूत्रपातनवद् वा मजुसूत्रः, यस्मादतीतानागतवक्रपविचारः रित्यागेन वर्तमानपदवीमनुधावति, अतः साम्प्रतकालावरुद्धपदार्थत्वात् ऋजु ग 1 निश्चितेन ' इत्यपि पाठः / 2 'भावनिश्चया' इति क-ग-पाठः। 3 'दित इति ग-पाठः /